________________
CROCCARCRA
संलेखनायास्तु पञ्चातिचारा अग्रे वक्ष्यन्ते, एवं चतुर्विंशत्यधिकशतसङ्ख्यातिचारमध्ये यः सूक्ष्मो वाऽनुपलक्ष्यो, वादरो वा व्यक्तः । तं निन्दामि मनसा पश्चात्तापेन, तं गर्हे गुरुसाक्षिकमिति ॥ २ ॥ प्रायोऽन्यत्रतातिचारा अपि| परिग्रहाप्रादुर्भवन्ति, अतः सामान्येन तत्प्रतिक्रमणायाह
दुविहे परिग्गहमी, सावजे बहुविहे अ आरंभे। कारावणे अकरणे, पडिक्कमे देसि सव्वं ॥३॥ । द्विविधे परिग्रहे सच्चित्ताचित्तरूपे, सावद्ये सपापे, बहुविधेऽनेकप्रकारे, आरम्भे च प्राणातिपातादिरूपे, कारणे | अन्यैर्विधापने, करणे स्वयं निवर्त्तने, चशब्दात्वचिदनुमतावपि, यो ममातिचारस्तमित्यनुवर्तते, तं निरवशेष, देसियंति आपत्वावसिकं, एवं रात्रिकपाक्षिकाद्यपि स्वस्वप्रतिक्रमणे, अशुभभावात्प्रातिकूल्येन (का)मामि प्रतिक्र(का) मामि निवर्तेऽहमित्यर्थः। उक्तंच-"स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशाद्गतः। तत्रैव क्रमणं भूयः,प्रतिक्रमणमुच्यते" इति । अत्र च महापरिग्रहारम्भनिवृत्तानिवृत्तयोर्गुणदोषाविर्भावकं श्रेष्ठिद्वयज्ञातमिदम्___ नासिक्ये नगरेऽभूतां, वणिजौ नाम नन्दको । वणिकलासुनिष्णाती, विख्याती सकले पुरे ॥ १ ॥ गृहिधर्मे रतोऽत्यर्थं, व्यवहारविशुद्धिभूः तत्रैकः स्वगुणैर्लोके, धर्मनन्द इति स्मृतः॥२॥ लोभाभिभूतचित्तत्वात्कूटवाणिज्यतोऽपरः । लोभनन्द इति ख्यातो, जनो हि बलवान् खलु ॥ ३॥ एकदा तत्पुराधीशोऽमात्येनाखानयत्सरः। खन्यमानेऽन्यदा तस्मिन् , भूयांसो निर्ययुः कुशाः॥४॥ आयसांस्तांश्च मन्वानः, खनकानां च मन्त्र्यदात् । कुशौ
PESANAXARXESGEROX
CR-ACCORE
Jain Education
For Private 3 Personal Use Only
jainelibrary.org