________________
श्राद्धप्र.
॥४८॥
Jain Education
| यः कर्तुमुद्यतोऽस्मि हहाल्पधीः ॥ ४४ ॥ तस्मादस्य वधेनेवा - नेन खेनापि मे कृतम् । यदि वा जीवतादेष, गृहीव्यामि धनं पुनः ॥ ४५ ॥ मत्वेति कर्त्तिकां कृष्ट्वा, विद्युल्लेखा सखीं क्षणात् । तत्कनिष्ठाङ्गुलीं छित्त्वा प्रत्यूचे तमिदं वचः ॥ ४६ ॥ अरे द्रुतमितो नश्य, यदि जीवितुमिच्छसि । अन्यथा त्वां हनिष्यामि, नूनं कर्त्तिकयानया ॥ ४७ ॥ तच्छ्रुत्वा कम्पमानाङ्गो, वातोद्धूत इवाङ्घ्रिपः । ततोऽनश्यत् झगित्येव, मृगारातेरिवैणकः ॥ ४८ ॥ सोऽग्रे यान् भोगि| नो विभ्यद्वर्षा भूरिव सत्वरम् । प्राप सागरपोतस्य, गोकुलं गोकुलाकुलम् ॥४९॥ नन्दाभिधो विभुस्तन्त्र, भद्राकारं निरीक्ष्य तम् । प्रत्यपद्यत पुत्रत्वेनापुत्रः परितोषभाक् ॥ ५० ॥ तद्गृहेऽथ निराबाधं, वर्द्धमानः क्रमेण सः । द्वैतीयीकं वयः प्रापाद्वैतसौन्दर्यसंयुतः ॥ ५१ ॥ स मातङ्गोऽप्यभिज्ञानहेतोरिछन्नां तदङ्गुलीम् । सागरायार्पयत्तां तु दृष्ट्वासौ मुमुदे तमाम् ॥ ५२ ॥ अन्यदा सागरः श्रेष्ठी, गोष्ठं याति स्म तत्र च । दामन्नकं निरैक्षिष्ट, च्छिन्नाङ्गुल्या सुलक्षितम् ॥ ५३ ॥ तं दृष्ट्वा सोऽपि साशङ्कं नन्दं पप्रच्छ तत्कथाम् । सोऽपि तस्मै यथाज्ञातं, तत् वृत्तान्तमचीकथत् ॥५४॥ तच्छ्रुत्वा सागरो दध्या| वभूत्सत्यं मुनेर्वचः । यथा ह्यविभवस्यायमधुनैवाधिभूरभूत् ॥ ५५ ॥ परं कार्यो न निर्वेदः, कार्यो नित्यमुपक्रमः । अनिर्वेदः श्रियों मूलं यस्मात्सर्वत्र गीयते ॥ ५६ ॥ एवं विमृश्य स श्रेष्ठी, चचाल खपुरं प्रति । खामिन् किमुत्सुकोऽसीत्यपृच्छतं गोकुलेश्वरः ॥५७॥ श्रेष्ठयूचे तत्र मे कार्य, महत्संप्रति संस्मृतम् । नन्दो जगाद तत्रार्थे, मत्सुतोऽयं गमिष्यति ॥ ५८ ॥ तच्छ्रुत्वा सागरस्तूर्ण, लिखित्वा लेखमात्मना । तस्यार्पयत् स तं लात्वा, द्रुतं राजगृहं ययौ ॥ ५९ ॥
For Private & Personal Use Only
वृत्तिः
॥४८॥
jainelibrary.org