________________
श्राद्धप्र.
वृत्तिः
॥४७॥
मुण्डिकैः क्वचित्। यत्पश्यन्नपि दीनास्वं, त्रायसे न कुटुम्बकम् ॥१३॥ भक्ष्यं विना कुटुम्बेऽस्मिन् , मृते वंठ इवैककः।कथं दर्शयितासि त्वं, मुखं लोकस्य दुर्मुखः॥१४॥ ततो निर्भर्त्य तत्स्यालैबेलादपि दयाहृदः।हदेऽनीयत मत्स्यानां, ग्रहणार्थ कृताग्रहः ॥१५॥ तत्रास्ताघजले जालं, सोऽक्षप्सीत् क्षितिकाकृतिः । अपतत्तत्र मत्स्यौघः, सिन्धौ नद्यौघवत्वयम् ॥१६॥ समाकर्षस्तमानायं, वीक्ष्य दुःखाकुलान् झपान् । तं तत्रैवामुचत्क्षिप्रं, कम्पमानोऽनुकम्पया ॥ १७ ॥ एवं दिनद्वयीमन्यां, मीनानां मनसो विना । स श्यालकानुवृत्त्यैव, चक्रे ग्रहणमोक्षणे ॥१८॥ तृतीयेऽह्नि तु वीक्ष्य| कां, झषस्यैकस्य पक्षिकाम् । भग्नामस्तोकशोकातः, खोकस्यागात्सुनन्दकः॥१९॥ जगाद खजनान् सर्वान् , रोचते तत्प्रजल्पत । अहं न जातुचित्कुर्वे, हिंसां श्वभ्रनिबन्धनाम् ॥२०॥ इत्युदित्वा सुनन्दोऽथाऽनशनं विदधे सुधीः। सम्यक्त समाहितस्वान्तः,खायुष्कं पर्यपूरयत् ॥ २१ ॥ इतश्च मगधाभिख्ये, देशे धमैकधामनि । श्रियः क्रीडागृहं राजगृहं नामास्ति पत्तनम् ॥२२॥ नरेशो नरवख्यिस्तत्राभूदिव मात्रिकः । प्रतापमन्त्रतो वश्या, जयश्रीर्यस्य सर्वदा ॥२३॥ तत्रासीन्मणिकाराख्यः, श्रेष्ठी श्रेष्ठिशिरोमणिः। अनेकमणिकोटीशो, मण्याकर इवापरः ॥२४॥ तस्य कुन्दोज्वलयशाः, सुयशा नाम पत्न्यभूत्। तस्याः कुक्षी सुनन्दस्य,जीवः समुदपद्यत ॥२५॥ (ग्रं. १३००) दिनेषु परिपूर्णेषु, साऽसूत सु-1 तमुत्तमम् । जनताजनितानन्दं,राकारात्रिरिवोडुपम् ॥२६॥ तस्योग्रभागधेयस्य,नामधेयं पिता व्यधात्। दामन्नक इति-10 ख्यातं, कृत्वा जन्ममहोत्सवम् ॥२७॥ पाल्यमानः स यत्नेन, सार्द्ध पित्रोमनोरथैः। क्रमादासादयन् वृद्धि, समजन्यष्ट
CANCERMISCk
॥४७॥
JanEducation inा
For Private
Personal use only
R
elibrary.org