SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Jain Education तीरियं होइ ॥ ९ ॥ भोयणकाले अमुगं, पञ्चक्खायं ति सरइ किट्टिययं । आराहियं पयारेहिं, सम्ममे एहिं पडियरियं । ॥१०॥” द्वारम् ६ । सांप्रतं फलं, तच सामान्यतो यथा-पच्चक्खाणस्स फलं, इहपरलोए अ होइ दुविहं तु । इहलोइ धम्मिलाई, दामन्नगमाइ परलोए । १ । तत्र च धम्मिलदृष्टान्तः सविस्तरत्वाद्वसुदेवहिण्डितो ज्ञेयः । दामन्नकस्य त्वयम् अत्राद्भरतक्षेत्रे, पुरं गजपुराह्वयम् । तत्र चासीत्सुनन्दाख्यो, भद्रकः कुलपुत्रकः ॥ १ ॥ तस्याभूज्जिनदासाहो, वयस्योऽद्वैतसौहृदः । यः सदा जिनधर्माब्जसेवने भृङ्गतां ययौ ॥ २ ॥ नेत्राविव समाचारौ, निर्व्याजप्रीतिसंयुतौ । अवियुक्तौ सदाऽन्येद्युरुद्याने तौ समेयतुः ॥ ३ ॥ निरीक्ष्य कंचनाचार्य, डक्कैरवनिशाकरम्। सुनन्दस्तत्र सानन्दः, समित्रोऽगात्तदन्तिके ॥ ४ ॥ ललाटस्पृष्टभूपृष्ठस्तमानम्य स संमदः । पश्यन्नास्यं गुरूणां सोऽध्यास्त मित्रस्य मार्गतः ॥५॥ अथाच गुरुर्मासममेध्यं यो हि खादति । खमांसमास्यते श्वभ्र - गतोऽसौ श्वभ्रपालकैः ॥ ६ ॥ श्रुत्वेति जातसंवेगो, जग्राहाभिग्रहं ततः । स मांसभक्षणस्यांगिरक्षणैकविचक्षणः ॥ ७॥ दुःखद्विषः सुखाकाङ्क्षानात्मौपम्येन देहिनः । स जानन्न व्यधाद्धिंसां, जातुचिन्मांसकाम्यया ॥ ८ ॥ तदाभितोऽप्यविरलरलरोलानिलैर्जगत् । कम्पयन्नथ दुष्कालः, कल्पकालोप| मोऽभवत् ॥९॥ तस्मिन् महति दुष्काले, पष्ठारक इवाजनि । जनः सर्वोऽपि हि प्रायो, मांसभक्षणतत्परः ॥ १० ॥ अथोचेऽसौ खगेहिन्या, त्रातुं निजकुटुम्बकम् । पङ्गुवत्किं निषण्णोऽसि ! मीनानानयसे न हि ॥ ११ ॥ सुमुखः सम्मुखंतस्या, बभाषेऽसौ मिताक्षरम् । भद्रे ! भद्रौघघातिन्या, कृतं मे हिंसयानया ॥ १२ ॥ सावोचद्वञ्चितोऽसि त्वमरे किं For Private & Personal Use Only jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy