________________
प्रमादाचरणानि
घृततैलजलादिभाजनानामस्थगनं, मार्गे सति हरितकायाद्युपर्यशोधिताध्वनि वा गमनं अनालोकितस्थाने हस्तक्षेपादि सत्यपि स्थाने सचित्तोपरि स्थित्यादि वस्त्रादेर्वा मोचनं पनककुन्थ्वाद्याक्रान्तमुव्यवश्रावणादेस्त्यजनमयतनया कपाटार्गलदानादि वृथा पत्रपुष्पादित्रोटनं मृत्खटीवर्णिकादिमर्दनं वह्नयुद्दीपनगवादिघातदानशस्त्रव्यापारणनिष्ठुरमर्मभाषणहास्यनिन्दाकरणादि रात्रौ दिवाऽप्ययतनया यत् स्नानकेशग्रन्थनरंधनखण्डनदलनभूखननमृदादिमर्दनलेपनवस्त्रधावनजलगालनादि च प्रमादाचरितं, श्लेष्मादीनां व्युत्सर्गेऽस्थगनाद्ययतनाऽपि प्रमादाचरितं मुहूर्तानन्तरं तत्र संमूछिममनुष्यसंमूर्च्छनतद्विराधनादिमहादोषसम्भवात् , अधिकरणभूतस्यागतस्य शस्त्रादेर्मलमूत्रादेश्चाव्युत्सर्जनमपि प्रमादाचरितं, स्वकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि प्रमादाचरितं, अपिहितस्य प्रदीपचुल्हकादेर्धारणं चुल्हकोपरिचन्द्रोदयाप्रदानाद्यपि प्रमादाचरणं, चन्द्रोदये मृगसुन्दरीदृष्टान्तः। अशोधितेंधनधान्यजलादिव्यापारणमपि प्रमादाचरितं, पापोपदेशहिंस्रप्रदाने च भ्रातृपुत्रकलत्रमित्रादावन्यथा निर्वाहाद्यदर्शनाडुःशक्यपरिहारे, अन्येषु तु पापाद्यनर्थफले, अतश्चतुर्विधोऽप्यनर्थदण्डः सर्वथा विवेकिना त्याज्यः, तस्मिंश्च योऽतिचार इत्यादि पूर्ववदिति पञ्चविशगाथार्थः ॥ २५ ॥ अत्र पश्चातिचारान्निन्दति
'कन्दप्पे' त्यादि, कन्दर्पः-कामस्तद्धेतुर्वाक्प्रयोगोऽप्युपचारात्कन्दर्पः-रागादिविकारोद्दीपकं हास्यादिवचनमित्यर्थः १, | कौकुच्यं-भूनेत्रीष्ठनासाकरचरणवदनादिविकारगर्भ हास्यजनक विटचेष्टितं, येन हि स्वस्य परस्य च मोहोरेको हास्यं स्वस्य लाघवं च स्यात् , न तादृशं श्रावकस्य वक्तुं चेष्टितुं वा कल्पते, प्रमादात् तथाऽऽचरणे त्वतिचारः, एतौ द्वौ प्रमादाचरितरूपानर्थदण्डत्यागस्यातिचारी २, 'मोहरि त्ति मौखर्य-असभ्यासम्बद्धबहुभाषित्वं, मौखर्ये सति जातु पापोपदेशस्यापि सम्भवादति
Jain Educati
o
nal
For Private & Personel Use Only
E
njainelibrary.org