________________
हिंस्रप्रदा
नम्
चन्दनअतिक्रमणावचूरिः ॥ ३४ ॥
'सत्थग्गिमुसले'त्यादि, शस्त्राग्निमुशलानि प्रसिद्धानि, उपलक्षणत्वादुदूखलहलाद्यपि यन्त्रक-शकटघरट्टादि, तृणंमहारज्जुकरणादिहेतुर्दर्भादि व्रणकृमिशोधनं वा बहुकरी वा काष्ठं-अरघट्टयष्ट्यादि मन्त्रो-विषापहारादिवशीकरणादिर्वा मूलंनागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातपातादि वा मूलकम, भेषजं-सांयोगिकं द्रव्यमुच्चाटनादिहेतुः. एतच्छस्त्राद्यनेकप्राणिप्राणव्यपरोपणकारणभूतं दाक्षिण्याद्यभावेऽन्येभ्यः प्रदत्तं दापितं वा तस्मिन् योऽतिचारः तं 'पडिक्कमे' इत्यादिप्राग्वत् । इति चतुर्विंशतितमगाथार्थः ॥ २४॥
'हाणुवट्टणेत्यादि, स्नानं-अभ्यङ्गपूर्वकमङ्गप्रक्षालनं, तच्चायतनया त्रससंसक्तभूमौ सम्पातिमसत्त्वाकुले अकाले वा सम्यग्वस्त्रापूतजलेन वा यत् कृतं तथोद्वर्त्तनं त्रससंसक्तचूर्णादिभिः यत्कृतमुर्तिका वा भस्मनि न क्षिप्ताः ततस्ताः कीटिकाकुलाः श्वादिभिर्भक्षिताः पादैर्मर्दिता वा, तथा वर्णकः-कस्तूरिकादिभिः कपोलादिमण्डनं, विलेपनं-चन्दनकुसुमादिभिग्रीष्महेमन्तादी, एतद्यं सम्पातिमसत्त्वाद्ययतनया यत्कृतं, शब्दो-वेणुवीणादीनां कुतूहलेन श्रुतः, निशि चोच्चैःस्वरेण शब्दः कृतस्तस्मिंश्च कृते गृहगोधादिदुष्टजीवा जागरिका मक्षिकादिजीवान् भक्षयन्ति जलाच्याद्यारम्भकैर्वोचैःशब्देन जागरितैः स्वस्वारम्भः प्रारम्भि, तथा च सति पानीयाहारिकावाणिज्यकारककर्षकारघट्टिकचाक्रिकरजकलोहकारमात्स्यिकसौनिकवागुरिकघातकचौरपारदारिकावस्कन्ददायकादीनामपि परम्परया कुव्यापारप्रवृत्तिरिति महाननर्थदण्डः, रूपाणि-ख्यादीनां नाटकादौ विलोकितानि परेषां पुरो वर्णितानि वा, रसा-मिष्टान्नशाकादिसम्बन्धिनः परेषामपि गृद्धिहेतुतया वा वर्णिता, एवं| गन्धवस्त्रासनाभरणान्यपि परगृद्धिहेतुतया व्यावर्णितानि; एतैश्च पञ्चविधविषयलक्षणः प्रमादो दर्शितः, तथा आलस्यादिना
च सति पानगरिका मक्षिका शन्दो वेणुवीणाम कपोलादिमणा
३४॥
Jain Education
For Private & Personel Use Only
ROMainelibrary.org