________________
-INE 2010
बनर्वदण्डमेदार
मार्जारमर्कटकुर्कुटकुकरमजाखातं सरः खातं तु तडागमित्याः करणीया इति १३, सरीख
यद्वा दग्धे क्षेत्रे सस्यसम्पत्तिवृद्धिः स्यादित्यादि पुण्यबुद्ध्या कौतुकाद्वारण्येऽग्निप्रज्वालनं दवदानं, श्रूयते हि मरणकाले भिल्लादयो भणन्ति-यथेयन्तो मम श्रेयोऽर्थ धर्मदीपोत्सवाः करणीया इति १३, सरोवरहृदतडागादिशोपः सारणीकर्षणेन | तत्र धान्यादिवपनार्थ, तत्राखातं सरः खातं तु तडागमित्यनयोर्भेदः १४, वित्तार्थ दुःशीलदासीनपुंसकादेः शुकसारिकामयूरमार्जारमर्कटकुकुटकुकुरग शुकरादेश्च पोषोऽसतीपोषः, केचन हि दासीः पोषयन्ति तत् सम्बन्धिनी च भाटी गृह्णन्ति यथा गोलदेशे १५, एवंखुशब्दौ सूत्रगाथाप्रान्ते योज्यौ, ततश्चैवंप्रकाराण्यन्यान्यपि खरकर्माणि निस्त्रिंशजनोचितानि कोट्टपालनगुप्तिपालनसीमपालनादीनि 'खुनिश्चयेन वर्जयेत् , भूयोवर्जनक्रियाऽभिधानमत्यादराख्यापनार्थ, एषु वर्जनीयेषु यदनाभोगादिनाऽतिचरितं तत् प्रतिक्रमामीत्यध्याहार्य, एतद्ब्रतपालने सर्वाङ्गीणदिव्यभोगनीरोगताऽभीष्टसंयोगनरामरपरमपदादि फलमिति, द्वाविंशत्रयोविंशगाथार्थः ॥ अत्र व्रते मंत्रिपुत्रीवृत्तम् । उक्तं सप्तमत्रतं, अथानर्थदण्डपरिहाराख्यमष्टमं, गुणवतं तु तृतीयं, तत्रार्थः-प्रयोजनं क्षेत्रवास्तुधनधान्यशरीरस्वजनादिविषयं तस्याभावोऽनर्धस्ततोऽनर्थ-निष्प्रयोजन प्राणी पुण्यधनापहारेण दण्ड्यते-पापकर्मणा विलुप्यते येन सोऽनर्थदण्डः, स चापध्यान १ पापोपदेश २ हिंस्रप्रदान ३ प्रमादाचरित ४ भेदाच्चतुर्की, तत्रापध्यानं-आर्त्तादि, क्षेत्रं कृष वृषभंदमय हयान् पण्डय क्रथय शत्रून् यन्त्रं वाय शस्त्रं सज्जय, एवं प्रत्यासीदति वर्षाकालो दीयतां वल्लरेवग्निः, सजीक्रियतां हलफालादि अतिक्रामति वापकालः, शीघ्रमुप्यन्तां धान्यानि भृता वा केदारा गाह्यन्तां सार्द्धदिनत्रयमध्ये उप्यन्तां च ब्रीहयः जाता वयःस्थाः कन्यका विवाह्यतां शीघ्र, प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणीक्रियन्तां प्रवहणमित्यादीनि सर्वाण्यपि पापोपदेशः, हिंस्रप्रदानप्रमादाचरितरूपभेदद्वयं तु वहुसावद्यत्वात् सुत्रकृदेव क्रमाद् गाथाद्वयेनाह
RAMANANDININDREN
For Private Personal use only