SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रथमव्रतस्य पश्चातीचाराः वन्दनप्रतिक्रमणावचूरिः ॥२६॥ पकाः, सङ्कल्पतोऽपि द्विधा सापराधो निरपराधश्च, तत्र निरपराधान्निवृत्तिः, सापराधे तु गुरुलाघवचिन्तनं, यथा गुर्वपराधो लघुर्वेति, एवं पुनर॰ गतेऽस्या द्वौ विंशोपको जाती, निरपराधवधोऽपि द्वेधा-सापेक्षो निरपेक्षश्च, तत्र निरपेक्षान्निवृत्तिः, न तु सापेक्षात् , निरपराधेऽपि वाह्यमानमहिषवृषभहयादौ पाठादिप्रमत्तपुत्रादौ च सापेक्षतया वधबन्धादिकरणात् , ततः पुनरद्धे गते सपादो विंशोपकः स्थितः श्रावकत्य जीव दयायाम् , एवंविधश्राद्धस्य प्रायः प्रथममणुव्रतम् । अथ सूत्रगाथाव्याख्याप्रथमे सर्वत्रतानां सारत्वादादिमाणुव्रतेऽनन्तरोक्तस्वरूपे, स्थूलाः एव स्थूलकाः-गमनागमनादिव्यक्तजीवलिङ्गा द्वित्रिचतुःपञ्चेन्द्रिया जीवास्तेषां प्राणा-इन्द्रियादयस्तेषां सङ्कल्पतोऽस्थिचर्मनखदन्ताद्यर्धमतिपातो-विनाशो हिंसेत्यर्थः, यद्वा स्थूलकमाणा-द्वीन्द्रियादयस्तेषामतिपातः, तस्य विरतिः-निवृत्तिस्तस्याः, अत्र गम्ययपि पञ्चमी, ततः प्राणातिपातविरतिमाश्रित्य यदाचरितं वक्ष्यमाणं वधवन्धादिकं असाध्वनुष्ठितं, क्व ? 'इत्थ'त्ति अत्रैव प्राणातिपातेऽज्ञानाद्यष्टविधप्रमादप्रसङ्गेन तन्निंदामीति गम्यमिति नवमगाथार्थः॥९॥ इदानीं यदाचरितं तदेव व्यक्त्या दर्शयति| "वहबंधछविच्छेए" इत्यादि, वधो व्यधो वा चतुष्पदादीनां निर्दयतया ताडनं बन्धो-रज्यादिभिर्गाढनियन्त्रणं २ छविः-शरीरं त्वग् वा तस्या छेदः छविच्छेदः कर्णनासिकागलकंबलपुच्छादिकर्त्तनमित्यर्थः ३, अतिभार:-शस्यनपेक्ष गुरुभारारोपणं ४, भक्तपानविच्छेदः-अन्नपाननिषेधः ५, सर्वत्र क्रोधादिप्रबलकपायोदयादित्यध्याहार्य, अन्यथाऽतिचारत्वानुपपत्तेः, श्राद्धेन विनयादिशिक्षार्थ पुत्रादीनामपि सापेक्षतया वधबन्धाद्याचरणादेव, एवं पश्चविधे प्रथमाणुव्रतस्यातिचारे सति | यद्धमित्यादि तथैव, अत्र चावश्यकचूर्णियोगशास्त्रवृत्त्यायुक्तो विधिरयं-प्रथमं तावदीतपर्षदैव श्रावकेण भाव्यं, यथा 川冷冷冷冷冷冷冷冷冷冷冷冷尔中來來來來來來來來來來六六索索室 ॥२६॥ For Private Personal Use Only hinelibrary.org Jan Education
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy