________________
वधादिविषया श्रावकसामाचारी
पुत्रादयः कर्मकरादयश्च दृष्टिदर्शनादिमात्रेणैव भीताः सम्यक् वर्त्तते, सम्भवे च सति दासादिद्विपदा गवादिचतुष्पदाश्च त एव सङ्ग्राह्या ये वधवन्धादि विनापि मर्यादया तिष्ठन्ति, स्वस्वकार्याणि च कुर्वते, तथासम्भवाभावेऽपि सापेक्षतयैव वधबन्धादि करोति, न त्वन्यथा, अत्र वधो मर्माणि मुक्त्वा लतादवरकादिना सकृद् द्विा १, बन्धश्च प्रलम्बदामग्रन्थिना शिथिलेनैव यथा बहानामप्यङ्गानि सप्रवीचाराणि स्युः,प्रदीपनादौ च सद्य एव च्छोटनादि स्यात् २, छविच्छेदस्तु रक्तगडुप्रभृतिविकारेऽपि सदयत्वेनैव युज्यते, ३, द्विपदादिभारवाहनेन पुनर्याऽऽजीविका सा श्रावकेण मुख्यवृत्त्या वर्जनीया, बहुदोषत्वात् , अन्यजीविकोपायाभावेऽपि द्विपदो यावन्तं भारं स्वयमुत्क्षिपत्यवतारयति च तावन्तमेव वाह्यते, चतुष्पदस्य तु यथाशक्ति भारः किश्चिदूनः क्रियते, हलशकटादिभ्योऽन्नपानाधुचितवेलायां चासौ मुच्यते ४, तथाऽन्नपानादिनिषेधोऽपराधकारिणोऽपि तवाद्य भोजनं न दास्यते इत्यादि वचसैवोच्यते, नतु क्रियते, जातु क्रियते तदापि तं भोजयित्वैव स्वयं भुञ्जीत, रोगादिशान्त्यर्थं पुनरुपवासाद्यपि कारयेत् , किं बहुना? यथा यथा मूलगुणस्याद्याणुव्रतत्य मालिन्यं न स्यात्तथा यतितव्यं, चौर्यादिमहाऽपराधकारिणोऽपि वधवन्धादिकरणं सापेक्षतयैव श्राद्धस्य युज्यते, न तु निर्दयतया, यदुक्तम् , "वहमारण १ अभक्खाण ॥१॥ तिवयरे अपओसे० ॥२॥" पडुकछागोत्पत्तीत्यादिवहुदोषहेतुं महिष्यजादिसङ्ग्रहं च वर्जयेदिति, विधवन्धादिग्रहणं चोपलक्षणं, तेन क्रोधादिना हिंसादिहे तुमंत्रतंत्रौषधप्रयोगादयोऽन्येऽपि अतिचारतयाऽत्र व्रतेऽवगन्तव्याः, इति प्रथमत्रतस्थ-आद्याणुव्रतस्य पञ्चातिचारान् प्रतिक्रमामीति पूर्ववदिति दशमगाथार्थः ॥१०॥ अत्र व्रते हरिबलधीवरकथा परमगुरुश्रीरत्नशेखरसूरिविरचितप्रतिक्रमणसूत्रवृत्तितोऽवधार्या, उक्तं प्रथममणुव्रतं, साम्प्रतं द्वितीयमाह
Jain Educat
For Private & Personel Use Only
jainelibrary.org