SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ वन्दनप्रतिक्रमणावचूरिः प्रशस्ताप्रशस्तरागद्वेषवरूपं, स. म्यक्त्वय खरूपफल ॥ २३ ॥ मेदाः गृहहट्टादिष्वागमननिर्गमनस्थानादिना योऽतिचारः, प्रयोजने सत्यपि असावधानतया गमनागमनादेंः पञ्चेन्द्रियादिवधहेतुकत्वस्यापि सम्भवेन श्राद्धानां निषिद्धत्वात् , तथा राजाद्यभियोगे सति स्वनियमखण्डनादौ नियोगे च पापमयो योऽतिचारः, शेष तथैव, ज्ञानातिचारमाश्रित्य व्याकृतायाः पाश्चात्यगाथाया अप्येवं सामान्येन व्याख्या सम्भवतीति पञ्चमगाथार्थः ५ सम्प्रति सम्यक्त्वातिचारपञ्चकं प्रतिक्रामति संकाखेत्यादि, तत्र दर्शनीयमोहनीयकम्र्मोपशमादिसमुत्थोऽहंदुक्तीवादितत्वसम्यश्रद्धानरूपः शुभ आत्मपरि-1 णामः सम्यक्त्वं, यदुक्तं [सम्प्रति सम्यक्त्वातिचारः।] "जिअ १ अजिअ २ पुण्ण ३ पावा ४ सव ५ संवर ६ निजर ७ बंध ८ मुक्ख ९ जेणं तु । सद्दहइ तयं सम्मं तं खयगाई बहुभेयं ॥१॥” तत्त्वत्रयाऽध्यवसायो वा सम्यक्त्वं, यदुक्तम्-"अरिहं देवो गुरूणो सुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो सम्मत्तं विति जगगुरूणो ॥ १॥” सम्यक्त्वं चाहर्द्धर्मस्य मूलभूतं, यतो द्विविधं त्रिविधेनेत्यादिप्रतिपत्त्या श्राद्धद्वादशव्रती सम्यक्त्वोत्तरगुणरूपभेदद्वययुतामाश्रित्य त्रयोदशकोटिशतानि चतुरशीतिः कोव्यो द्वादश लक्षाः सप्तविंशतिः सहस्राणि द्वे शते च युत्तरे भङ्गाः स्युः, एषु च केवलं | सम्यक्त्वं प्रथमो भङ्गः, सम्यक्त्वं विना च नैकस्यापि भङ्गस्य सम्भवः, एतत्फलं चैवं-"अंतोमुहुत्तमित्तंपि० ॥ १॥ सम्मद्दिट्ठी जीवो०२॥” तत् सम्यक्त्वमौपशमिक १क्षायिक २ क्षायोपशमिक ३ वेदक ४ सास्वादन ५ भेदात् पञ्चधा, तत्रौप-1 शमिक-मिथ्यात्वरूपदर्शनमोहनीयोपशमनस्वरूपं ग्रन्थिभेदक रुपशमश्रेणिप्रारम्भकस्य वा स्यात् १, क्षायिकं सम्यक्त्वमिश्रमिथ्यात्वपुञ्जरूपत्रिविधदर्शनमोहनीयनिःशेषक्षयलक्षणं क्षपकश्रेणिप्रतिपत्तुः २, क्षायोपशमिकमुदीर्णस्य मिथ्यात्वमोहनी ॥२३॥ Jain Education International For Private & Personel Use Only jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy