________________
1857-58488888
रागदृष्टिरागाणामन्यतरेण, तत्र कामरागः ख्यादौ श्रीजम्बूजीवस्य भ्रातृदाक्षिण्या त्तत्रत भवदत्तस्येवार्द्धमण्डितस्ववध्वां स्नेहरागः स्वजनधनादौ बोटिकमतप्रवर्त्तकशिवभूताविव भगिन्युत्तरायाः, शाक्यादिकुदर्शने रागो दृष्टिरागः प्रभावती| देवकृच्छ्रबोधिततापसभक्तोदायननृपस्येव, तथा द्वेषेणाप्रीतिरूपेण गोष्ठामहिलादिवत्, रागद्वेषावपि प्रशस्तौ अप्रशस्तौ च, तत्राप्रशस्तो रागः ख्यादौ, प्रशस्तोऽर्हदादौ श्रीगौतमादेरेव, द्वेषोऽप्रशस्तो द्विषदादौ, प्रशस्तो दुष्कर्म्मप्रमादादौ तत्क्षयार्थीद्यतश्रीवीरा देखि, 'तं निंदे' इत्यादि प्राग्वदिति चतुर्थगाथार्थः । अथ दर्शनातिचारं प्रतिक्रमितुमाह
'आगमणे' इत्यादि, आगमने - मिथ्यादृष्टिरथयात्रादेः सन्दर्शनार्थं कुतूहलेनासमन्ताद्गमने, एवं तदर्थमेव स्वगृहादेर्नि गमने, तथा स्थाने-मिथ्यादृष्टिदेवगृहादावूर्द्धमवस्थाने, 'चङ्क्रमणे' तत्रैवेतस्ततः परिभ्रमणे उपलक्षणत्वान्निषदनशयनादौ च यद्वद्धमिति पूर्वगाथातोऽनुवर्त्तते, निषिद्धं च श्राद्धानां कुतीर्थगमनादि, यतः - "वेसागिहेसु गमणं जहा विरुद्धं महाकुलवहूणं । जाणाहि तहा सावय ! सुसावगाणं कुतित्थेसु ॥ १ ॥ " आगमनादि च क्व सति ?, अनाभोगे- अनुपयोगे, प्रमादवशात् सम्यतत्वोपयोगाभावे इत्यर्थः, तदुपयोगे सति कुतीर्थगमनादौ त्वनाचार एव, नातिचारः, तथा अभियोगे - राजाभियोगादिबलात्कारे, राजाभियोगादयश्च पटू, तत्र राजाभियोगो - राजपारवश्यं १, गणाभियोगः - स्वजनादिसमुदायवशता २, बलाभियोगोराजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं ३, देवाभियोगो - दुष्टदेववशता ४, गुरुनिग्रहो - गुरुबलात्कारः, गुरवश्च-मातापितृस्वात्रादयः ५, वृत्तिकान्तारो — दुर्भिक्षारण्यादौ सर्वथा निर्वाहाभावः ६, एवंविधेऽभियोगे तथा नियोगे-श्रेष्ठिमन्त्रिपदादिरूपेऽधिकारे च सति शेषं प्राग्वत् । एवं दर्शनातिचारमाश्रित्येयं गाथा व्याख्याता । यद्वा सामान्येनैव व्याख्यायते - यथाऽनाभोगेन
Jain Educationtional
282
For Private & Personal Use Only
jainelibrary.org