________________
यस्य विपाकोदयेन वेदितत्वात् क्षयेऽनुदीर्णस्य चोपशमे सति क्षयोपशमरूपं, अस्मिंश्च शुद्धमिथ्यात्वपुञ्जपुद्गला विपाकोदयेन प्रदेशोदयेन त्वशुद्धमिथ्यात्वपुञ्जपुद्गला अपि वेद्यन्ते, औपशमिके तु सर्वथा न किमपि वेद्यते इत्यनयोर्भेदः ३, वेदकं-क्षपक श्रेणिं प्रपन्नस्य चतुर्वनन्तानुबन्धिषु मिथ्यात्वमिश्रपुञ्जदये च क्षपितेषु सत्सु क्षप्यमाणसम्यक्त्वपुञ्जे तत्सम्यक्त्वचरमपुद्गलक्षपणोद्यतस्य तच्चरमपुद्गलवेदनरूपं ४, सास्वादनं-पूर्वोक्तीपशमिकसम्यक्त्वं वमतः तदास्वादरूपं ५, अस्मिन् परमरहस्यभूते शङ्कादयः पञ्चातिचाराः परिहार्याः, ते चेमे-शङ्का-सन्देहः, सा च सर्वविषया देशविषया च, तत्र सर्वविषया अस्ति वा नास्ति वा धर्मः, यद्वा जिनधर्मः सत्यो वाऽसत्यो वा इत्यादि, देशशङ्का एकैकवस्तुधर्मगोचरा, यथा-अस्ति जीवः परं सर्वगतोऽसर्वगतो वा, पृथ्व्यादीनां वा कथं सजीवत्वं ?, निगोदादयो वा कथं घटन्ते, यद्वा सम्प्रति यतिः चारित्रसहितो नो वेति, इयं द्विविधापि अहंदुक्ततत्त्वेष्वप्रत्ययरूपा सम्यक्त्वं दूषयति, शङ्कायां ज्ञातं यथा-वहाराद्धसिद्धनरेणेयं षण्मासीं नित्यं कण्ठस्था प्रत्यहं ५००
पञ्चशतदीनारप्रदेत्युक्त्वा द्वयोः कंथा दत्ता, एकेन शङ्कया जनहिया त्यक्ता, अन्येन पण्मासीं व्यूढा स महर्द्धिर्जज्ञे, अतः शङ्का डन कार्या इति प्रथमोऽतिचारः, क्षमादिगुणलेशदर्शनादिना परदर्शनाभिलाषः, आकाङ्क्षाऽपि सर्वविषया देशविषया च, सर्वविषया
सर्वपापण्डिकधर्मकाङ्खालक्षणा, देशविषया कासा तु सुगताद्यन्यतरदर्शनाभिलाषरूपा, एवं आकाङ्क्षापि सम्यक्त्वं दूषयति, अत्र धाराचामुण्डाराधकदृष्टान्तः। 'विगिंछ' त्ति विचिकित्सा-तपस्तपनादौ धर्मकार्य फलं प्रति सन्देहः, सा चैवं-उभयथापि क्रिया दृश्यन्ते, सफला अफलाश्च, कृषीवलादीनामिव, अतः श्रीजिनधर्मास्याप्यस्य महतस्तपस्तपनकष्ठानुष्ठानादिक्लेशस्य सिकताकणकवलवन्निःस्वादस्यायत्यां फलसम्पद्भवित्री न वेति, तदेवं विचिकित्सापि सम्यक्त्वं दूषयति । ननु शङ्कापि सन्देह
पञ्चशया इति प्रथमोऽतिचारः, क्षमादिगणा का तु सुगताद्यन्यतरदशा धर्मकार्थे फलं प्रति र
Jan Education Internal
For Private Personal Use Only