________________
प्रत्याख्यानफलं प्रति
वन्दनप्रतिक्रमणावचूरिः ॥१९॥
क्रमणवि
तह उस्सग्गो पुत्ती वंदणय पच्चक्खाणं तु । अणुसट्ठी तिन्नि थुई बंदण बहुवेल पडिलेहा ॥३॥” तथा पाक्षिकादीनि-"मुहपुत्ती वंदणयं संबुद्धाखामणं तहाऽऽलोए । वंदण पत्तेयक्खामणाणि वंदणय सुत्तं च ॥१॥ सुत्तं अब्भुट्ठाणं उस्सग्गो पुत्ति वंदणं तह य । पजंते खामणयं तह चउरो छोभवंदणया ॥२॥ पक्खिय तिन्नि सयाई ऊसासा पणसया उ चउमासे । अट्ठसहस्सं चवरिसे वरिसे सिज्जसुरीए तहुस्सग्गो॥३॥" प्रतिक्रमणं च कृतसामायिकेनैव कर्तव्यं, अतस्ततसूत्रं व्याख्यायते-करेमिभंते! सामाइय'मित्यादि, 'करोमि विदधामि, भदन्त ! सुखकल्याणहेतुत्वात् , भयांत ! सप्तविधभयांतकृत्त्वात् , भवांत ! वाचतुर्गतिसंसारोच्छेदकत्वात् , इदं चामन्त्रणं गुर्वनुज्ञातं सर्वमेव कार्यमिति दर्शनपरं, समानां-ज्ञानादीनां आयो-लाभः समायः तत्र भवं सामायिक, एतच्च देशसर्वसावद्ययोगप्रत्याख्यानभेदात् द्वेधा, तत्र श्रावकस्य सामान्येन सर्वत्राप्यनुमतिसम्भवात् सर्वशब्दवर्ज, सहावद्येन-पापेन वर्तते यः स सावद्यो योगो-व्यापारः तं, 'प्रत्याचक्षे निषेधयामि, यावजीवाल्पकालभेदात् निषेधोऽपि द्विधेतिकृत्वाह-यावन्नियमं पर्युपासे-यावन्तं कालं ते तिष्ठामि, व्रतावस्थानकालश्च जघन्येनापि किल मुहूर्त्तमात्रः, प्रत्याख्यानस्य त्रिविधं त्रिविधेनेत्यादिनवभङ्गीसम्भवादत्राधिकृतचतुर्थभङ्गमाश्रित्याह-द्विविधं त्रिविधेन [क्रियते] इति, अयमपि भङ्गकस्त्रिभेदतः अतो निगमनायाह-मनसा वचसा कायेन न करोमि स्वयं न कारयामि चान्यैः, व्यत्ययनिर्देशस्तु योगस्य करणाधीनताज्ञापनार्थः । अत्र च करोमि भदन्त ! सामायिकमित्यनेन प्रत्युत्पन्नसावद्ययोगविरतिरुक्ता, सावद्ययोगं प्रत्याख्यामीत्यनेन त्वनागतस्येति, अतीतप्रतिक्रमणार्थमाह-तस्याप्यपिशब्दलोपादत्र षष्ठी द्वितीयार्थे प्राकृतत्वात्, अतीतं सावध योगंभदन्त! प्रतिक्रमामि-मनसा मिथ्यादुष्कृतकरणेन निवर्त्तयामि, निन्दामि स्वसाक्षिकं, गहें गुरुसाक्षिक, पुनर्भदन्तग्रहणं सर्वमपि कार्य कृत्वा
विश्व, सामायिक
सूत्रस्थ । व्याख्या
-----------------
॥१९॥
O
N
JainEducation intemational
For Private
Personel Use Only