________________
| तस्मै निवेदनीयमिति ज्ञापनार्थ, तथाऽऽत्मानमतीतसापद्ययोगकारिणं तदनुमतित्यागेन व्युत्सृजामि-त्यजामि इति ।
अथ प्रतिक्रमणसूत्रवृत्ति:
इह तावत् कृतसामायिकेन प्रतिक्रमणमनुष्ठेयं, सामायिककर्ता च साक्षाद्गरोरभावे स्थापनाचार्यस्थापना पूर्व विधेया, सर्वस्यापि धर्मानुष्ठानस्यैवमेघागमेऽभिहितत्वात् , शून्यानुष्ठानस्य च फलशून्यत्वापत्तेः, यदाहुः-श्रीजिनभद्रगणिक्षमाश्रमणपादाः श्रीविशेषावश्यके-"गुरुविरहम्मि य उवणा गुरूवएसोवदंसणत्थं च । जिणविरहम्मि व जिणबिंबसेवणामंतणं सहलं ॥१॥ रन्नो व परुक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परुक्खस्सवि गुरुणो सेवा विणयहेऊ ॥२॥" अतः सिद्धान्तानुसारेण स्थापना विधेया, तस्या विधिरयम्-"गुरुगुणजुत्तं तु गुरुं ठाविज्जा अहव तत्थ अक्खाई । अहवा नाणाइतिगं ठविज सक्खं गुरुअभावे॥१॥ अक्खे वराडए वा कढे पुत्थे व चित्तकम्मे वा । सम्भावमसब्भावं गुरुठवणा इत्तराऽऽवकहा ॥२॥" अनयोाख्या-गुरुगुणाः षट्त्रिंशत् , 'पंचमहवयेत्यादिकास्तैर्युक्तं गुरुं, अथवा अक्षादीन् , अथवा ज्ञानादित्रयं| तदुपकरणानि स्थापयेत् , साक्षाद्र्वभावे, अक्षा:-प्रतीताः, वराटकाः-कपर्दकाः, 'काष्ठं दण्डिकादि, पुस्तं-लेप्यादिकर्म, चित्र-IY कर्म वा-गुरुमूर्त्यादिरूपं एवं सद्भावेऽसद्भावे च, गुरुस्थापना च इत्वरा ज्ञेया कियत्कालं काष्ठादौ, यावत्कथिका-यावद्रव्यभाविनी स्थापनाचार्यादौ इति, स्थापनां विधाय-"साहूणं सगासाओ रयहरणं निसिज वा मग्गई" इत्यावश्यकचूर्णिवचनात् सामायिककरणाय गृहीतरजोहरणमुखपोतिकः सुश्रावकः "गोयमा! अपडिकंताए इरियावहियाए न कप्पइ किंचि चिइवंदणसज्झायज्झाणाइअं काउ" मित्यादि महानिशीथवचनात् प्रथममी-पथिकी प्रतिक्रम्य सम्यग्विधिना गुर्वादिसाक्षिकं सामायिक |
Jain Ed
m
ational
For Private & Personel Use Only
www.jainelibrary.org
M