________________
सिद्धस्तवः
वन्दनप्रतिक्रमगावचूरिः
॥९
॥
तेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगतास्तेभ्यः, 'परंपरागतेभ्यः' परम्परया-चतुर्दशगुणस्थानक्रमारोहारूपया, यद्वा कथंचित् कर्मक्षयोपशमादेः सम्यग्दर्शनं ततो ज्ञानं ततश्चारित्रमित्येवंभूतया गतास्तेभ्यः, लोकाग्रमुपगतेभ्यः-सिद्धक्षेत्रं सम्प्राप्तेभ्यः, नमः सदा सर्वसिद्धेभ्यः-तीर्थसिद्धादिपञ्चदशविधेभ्यः, ते चामी-"जिण १ अजिण २ तित्थ ३ऽतित्था ४ गिहि ५ अण्ण ६ सलिंग ७ थी ८ नर ९ नपुंसा १० । पत्तेय ११ सयंबुद्धा १२ य बुद्धबोहि १३ क १४ णिक्का १५ य ॥१॥" 'वुधा' आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः, शेष व्यक्त, सिद्धस्तुतिरष्टमोऽधिकारः। अथासन्नोपकारित्वात् वर्तमानतीर्थाधिपतेः श्रीवीरस्वामिनः स्तुतिं पठति-'जो देवाणबी' त्यादि, यो देवानामपि-भुवनपत्यादीनां पूज्यत्वाद्देवः, यं देवाः प्राञ्जलयो-विनयरचितकरसम्पुटा नमस्यन्ति, तं भगवन्तं देवदेवैः-शक्रादिभिः 'महितं' पूजितं, शिरसा वन्दे महावीरं ॥ अथ नमस्कारफलदर्शनायाह-‘एको वि नमुकारों' इत्यादि, एकोऽपि नमस्कारः, आसतां बहवो, जिनवरवृषभाय, जिनाः-श्रुतावधिजिनादयः, तेषां वराः केवलिनः, तेषां वृषभः, तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभः, तस्मै वर्द्धमानाय, किमित्याह-संसारसागरात् , तत्र तिर्यग्नरनारकामरभवानुभवलक्षणः संसारः स एव प्रभूतभवस्थित्यादिभिर्दुष्प्राप्यमाणपारत्वात् सागर इव तस्मात्तारयति-पारं नयति, कमित्याह-'नरं वा नारी वा' नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थ, नारीग्रहणं तासामपि तद्भव एव मुक्तिगमनज्ञापनार्थ, न हि वापि स्त्रीषु विशेषेण मुक्तिगमनं प्रति प्रतिबन्धः प्रतिपादितोऽस्ति, तत्कारणस्य रत्नत्रयस्य नरेषु नारीषु चाविशेषेण भणनात् , तत्पालनस्य चोभयत्रापि प्रत्यक्षोपलभ्यमानत्वात् , अर्थतासां सप्तमनरकगमनाभावेनोर्ध्वाधोगतिवैषम्यदर्शनात् कैश्चिन्मुक्तिगमनं प्रति विप्रतिपद्यते, तदप्ययुक्तं, न हि यस्याधःस्तोका
॥९॥
Jain Education
For Private & Personal Use Only
J
ainelibrary.org