SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पयओ' इत्यादि, चतुर्थ्याः स्थाने सप्तमीति, सिद्धाय-फलाव्यभिचारेण प्रतिष्ठिताय सकलनयव्यापकत्वेन त्रिकोटीपरिशुद्धत्वेन च प्रख्याताय 'भो!' इति अतिशायिनामामन्त्रणे, पश्यन्तु भवन्तः, प्रयतः-आदरपरोऽहं भूत्वा, नमो जिनमताय, कुर्वे | इति शेषः, तस्मिंश्च सति नन्दिः-समृद्धिः, सदा संयमे-चारित्रे भूयात् , यदार्षम्-“पढमं नाणं तओ दया” इत्यादि, किंविशिष्टे संयमे ?-'देवमित्यादि, देवा-वैमानिकाः, नागा-धरणादयः, शोभनो वर्णो येषां ते सुवर्णा-ज्योतिष्काः 'किन्नरा व्यन्तरविशेषास्तेषां 'गणैः' समूहै: सद्भूतभावेन अर्चितः तस्मिन् , अत्र वकारे अनुस्वारः प्राकृतत्वात् सकारस्य द्वित्वं च, लोक्यते इति लोकः-ज्ञानं, स यत्र श्रुते प्रतिष्ठितः-तद्वशीभूतः, तथा जगत् इदं ज्ञेयतया प्रतिष्ठितं, किम्भूतं ? त्रैलोक्यम ासुरं आधाराधेयरूपं, तत्र त्रैलोक्यमूर्ध्वाधस्तिर्यग्लोकलक्षणं तस्मिन् , मासुरमित्युपलक्षणत्वात् नारकतिर्यगादिपरिग्रहः, अयमित्थंभूतो 'धर्मः' श्रुतधर्मों 'वर्द्धता' वृद्धिं यातु, शाश्वतोऽर्थतो नित्यः विजयतां परवादिविजयेन, धम्मोत्तरं-चारित्रधर्मस्य प्राधान्यं यथा भवत्येवं वर्धतां, पुनर्वृद्ध्यभिधानं प्रत्यहं मोक्षार्थिना ज्ञानवृद्धिविधेयेत्युपदेशार्थ, श्रुतस्यैव वन्दनादिप्रत्ययं कायोत्सर्गार्थं पठति-'सुअस्स भगवओ' इत्यादि 'वेसिरामी' ति यावत्-अर्थः प्राग्वत् , नवरं श्रुतस्येति-प्रवचनस्य सामायिकादिचतुर्दशपूर्वपर्यन्तस्य, भगवतः-समग्रैश्वर्यादियुक्तस्य, स्तुतिश्चात्र श्रुतस्य दातव्या, “सुअनाणत्थयरूवो अहिगारो एस होइ सत्तमओ । इह पय संपय सोस नवुत्तरा वन्न दुन्नि सया ॥१॥" चतुर्थों दण्डकः। ततश्च सर्वानुष्ठानफलभूतेभ्यः सिद्धेभ्यो नमस्करणायेदं पठति-'सिद्धाणं बुद्धाणं' इत्यादि, सिद्धेभ्यः-परिनिष्ठितार्थेभ्यः, ते च सामान्यतः "कम्मे सिप्पे अ विजाये" त्याद्यनेकविधाः स्युः, अत आह-'वुद्धेभ्यों ज्ञाततत्त्वेभ्यः, 'पारग Jan Educat For Private Personel Use Only ainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy