SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ वन्दनप्रतिक्रमणावचूरिः लोके सौधर्मादिस्वर्गगतविमानेषु त्रयोविंशत्युत्तरसप्तनवतिसहस्राधिकचतुरशीतिलक्षसङ्ख्येषु इति, अत एव स्तुतिरत्र सर्वजिनसाधारणा, एष सर्वलोकस्थापनाऽर्हत्स्तवरूपः पश्चमाधिकारस्तृतीयो दण्डकः॥ साम्प्रतं येन तेऽर्हन्तस्तत्कथिताश्च भावा ज्ञायन्ते तत् प्रदीपकल्पं श्रुतमर्हति कीर्तनं, तत्रापि तत्प्रणेतन् प्रथमं स्तौति'पुक्खरवरदी'त्यादि, 'पुष्करवरद्वीपः तृतीयद्वीपः तस्याः-मानुषोत्तरपर्वतादर्वाग्भागवर्तिनि, तथा 'धातकीपण्डे द्वीपे द्वितीये, 'जम्बूद्वीपे च' प्रथमे द्वीपे, यानि भरतैरावतमहाविदेहानि पञ्चदश क्षेत्राणि तेषु, प्राकृतत्वादेकवचनं, धर्मस्य-श्रुतधर्मस्यादिकरान्नमस्यामि-स्तुवे, एष षष्ठोऽधिकारः। अधुना श्रुतधर्म स्तौति 'तमतिमिरे त्यादि, तमः-अज्ञानं, तदेव तिमिरंअन्धकारं, यद्वा बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं कर्म तमः, निकाचितं कर्म तिमिरं, तस्य तयोर्वा पटलं-वृंदं तद् विध्वंसयतिविनाशयतीति तमस्तिमिरपटलविध्वंसनस्तस्य, सुरगणनरेन्द्रमहितस्येति व्यक्तं, सीमायां-मर्यादायां धारयतीति सीमाधरः, प्रक्र. मात् श्रुतधर्मस्तस्य, प्राकृतत्वात् कर्मणि षष्ठी, अतस्तं वन्दे तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी, प्रकर्षेण स्फोटितं विवेकिनां मोहजालं-मिथ्यात्वादिरूपं येन तस्य, इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनपूर्वकमप्रमादविषयतां दर्शयति'जाईजरामरणे'त्यादि, जातिजरामरणशोकप्रणाशनस्य जातिः-जन्म, शेषं व्यक्तं, कल्यम्-आरोग्यं अणति-शब्दयतीति कल्याणं, पुष्कलं-सम्पूर्ण, न च तदल्पं, किन्तु विशालं-विस्तीर्ण सुखं आवहति-प्रापयति कल्याणपुष्कलविशालसुखावहस्तस्य, देवदानवनरेन्द्रगणार्चितस्येति तु-सुरगणनरेन्द्रमहितस्येत्यस्यैव निगमनं, व्यक्तं चैतत्, धर्मस्य-श्रुतधर्मस्य सारं-सामर्थ्यमुपलभ्य कः प्रमादं कुर्यात्?, न कश्चिदित्यर्थः, अत्रार्थे षडावश्यकवृत्तेः (पृष्ठं ४६) दृष्टान्तो ज्ञेयः, यतश्चैवमतः "सिद्धे भो 米未悉南宋志杰宋宋元本本的兩條給南南市流派杰赤赤永不忘來飛 ॥ ८ ॥ Jain Education a l For Private & Personel Use Only Mainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy