________________
यैस्ते विधूतरजोमलाः, अत एव प्रक्षीणजरामरणाः, चतुर्विंशतिरपि जिनवराः, अपिशब्दः प्राग्वत् , 'जिनवराः' प्रकृष्टास्तीसार्थकरा 'मे' मम प्रसीदन्तु-प्रसादपरा भवन्तु, यद्यप्येते वीतरागत्वान्न प्रसीदन्ति तथापि तान् अचिन्त्यमाहात्म्योपेतान्|
चिन्तामण्यादीनिव मनःशुद्ध्याऽऽराधयन् अभीष्टफलमवाप्नोतीति, तथा 'कित्तिये'त्यादि, कीर्तितास्ते नामभिः प्रोक्ताः, |वन्दिताः-कायवाग्मनोभिः स्तुताः, महिताः-पुष्पादिभिः पूजिताः, य एते ऋषभाद्या लोकस्य-प्राणिवर्गस्य कर्ममलाभावेनोसत्तमाः, सिद्धाः-निष्ठितार्थाः, अरोगस्य भावः आरोग्य-सिद्धत्वं तस्मै बोधिलाभः-अर्हद्धर्मावाप्तिः आरोग्यबोधिलाभस्तं, स चानि
दान एव मोक्षाय, अतस्तदर्थमाह-'समाधिवरं' वरसमाधि-परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, सोऽप्यनेकधा तारतम्येनात उत्तम-सर्वोत्कृष्टं ददतु, भावसमाधिगुणाविर्भावकं जिनदत्ताख्यानकं षडावश्यकवृत्तितो (पृष्ठं ४३) ज्ञेयं; तथा 'चंदेसु। | इत्यादि, पञ्चम्यर्थे सप्तमी, ततश्चन्द्रेभ्यो निर्मलतराः, कर्ममलकलङ्कापगमात्, आदित्येभ्योऽधिकप्रकाशकराः, केवलालोकेन
लोकालोकप्रकाशकत्वात् , यदागम:-"चंदाइच्चगहाणं पभा पयासेइ परिमिअं खित्तं । केवलिअणाणलंभो लोआलोयं पयासेइ २८ ॥१॥” 'सागरवरः' स्वयम्भूरमणाम्भोधिः तद्वद्गम्भीराः, परीषहाद्यक्षोभ्यत्वात् , सिद्धाः-क्षीणाशेषकर्माणः, सिद्धि-परमपदा
वाप्तिं, मम दिशन्तु-प्रयच्छन्तु, "अडवीस पयपमाणा इह संपय वण्ण दुसयछप्पन्ना। नामजिणत्थयरूवो चउत्थओ एस अहि-13 गारो ॥१॥" एवं चतुर्विंशतिस्तवमुक्त्वा सर्बलोकेऽहंच्चैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति-'सबलोए अरिहंतचेइयाणमित्यादि, 'वोसिरामी ति यावत्, अर्थः प्राग्वत्, नवरं 'सवलोए' अधस्तिर्यगूर्द्धरूपे सर्वलोके, तत्राधोलोके चमरादिभवनेषु द्वासप्ततिलक्षाधिकसप्तकोटिसङ्खयेषु, तिर्यग्लोकेऽसङ्खयेषु व्यन्तरनगरद्वीपाचलज्योतिष्कविमानादिषु, ऊर्द्ध
Jain Educator
Mahanal
For Private & Personel Use Only
S
ainelibrary.org