________________
११ २८ एतानि पञ्चान्यपि षडावश्यकवृत्तितो ज्ञेयानि । १९ ५ दामनकस्यात्र षडावश्यकवृत्तितो ज्ञेयः ।
इति, अतः किमयं षडावश्यकावचूरिरिति कल्प्यते ? विषयः-पत्रं १ दर्शनविशुद्ध्यर्थ चैत्यवन्दनं, प०१-स्थापना, पश्चनमस्कारस्तवावचूरिश्च, प०२-त्रिधा चैत्यवन्दना, प०२-३-ईर्यापथिकी-उत्तरीकरण-कायोत्सर्गसूत्राणामवचूरिः, प०३-५-शक्रस्तवाषचूरिः, प०५-६-चैत्यस्तवावचूरिः कायोत्सर्गदोषा(१९)श्व, ५०६-१०-नामस्तव-श्रुतस्तव-सिद्धस्तवनामवचूरिः, प०१०-सुरस्मृतिसूत्रावचूरिः, ५०१०-प्रणिधानसूत्रावचूरिः, १० १०-१२-वन्दने १९८ स्थानानि, प०१३१४-द्वादशावर्त वन्दनकसूत्रावचूरिर्गुरूणामाशातना(३३)श्व, प०१४-अतिचारालोचन-प्रतिक्रमणबीज-क्षामणासूत्राणामवचूरिः, प०१५-१९प्रत्याख्यानस्वरूपं दशानां च प्रत्याख्यानानामवचूरिः, प०१९-पञ्चानां प्रतिक्रमणानां विधिः सामायिकसूत्रावचूरिश्च, प० २०-स्थापनासिद्धिः, प०२०-४६-श्राद्धप्रतिक्रमणसूत्रावचूरिश्चेति ।।
न्यायावतारादिटीकाविरचनेन नैयायिकानां, ग्रन्थग्रथनेन संग्रहकारकाणां, आगमादिवाचनया वाचनाकारकाणां, आगमादीनां मुद्रण-- शिलाताम्रपत्रस्थापनया च स्थिरीकरणसंस्मारकाणां आगमोद्धारक-ध्यानस्थ-गुरुदेव-श्रीआनन्दसागरसूरीश्वराणामयं मनोरथ आसीत् | यत् 'यद्यपि पिपठिपूणां उपयोगिनोऽनेकाः सटीका आगमादयो ग्रन्था मुद्रापिताः सन्ति तथापि मन्दबुद्धीनां कृतेऽवचूरयो नितरां हितावहा भवेरन् । यदि तेषां केनापि मुद्रणमाद्रियेत तर्हि सुगमतयाऽल्पधिषणेभ्यो ग्रन्थहार्दावगमने सुसहायकं भवेत्' इति । तत्र भवद्भिर्गुरुपादैः प्रतिष्ठापितायाः श्रेष्ठि देवचन्द्र लालभाइ-जैनसाहित्योद्धाराख्यसंस्थायाः कार्यवाहकैस्तन्मुद्रणं गुरुपादानां मनोरथपूर्तिकामनयाऽङ्गीकृतम् । गुरुपादैरनेकाव चूरीणां मुद्रणार्थं संशोधनं कृतमासीत्ता एव मुनिगुणसागरेण निरुक्तसंस्थायै समर्पिताः । तासां मुद्रणकार्यमपि भूरिमुद्रणालयेषु समारब्धमेव ।।
वं.प्र.प्र. २
Jain Educaton In
For Private & Personel Use Only
Malainelibrary.org