________________
| उपोद्धातः
वन्दनप्रतिक्रमणावचूरिः
॥७॥
आगमोद्धारकानामनन्यपट्टधर-श्रुतस्थविर-विद्यावारिधि-निरभिमानि-शान्तमूर्ति-आचार्यश्रीमाणिक्यसागरसूरीश्वरैर्दर्शितमार्गेणायं ग्रन्थः संपादितः।
___ अस्यामवचूरौ मूलसूत्राणि न दर्शितान्यतः तानि प्रथमपरिशिष्टे दर्शितानि । अन्त्यभागे क्रमेणैतानि परिशिष्टानि दर्शितानि-(१) अवचूरिकृतानि बन्दनप्रतिक्रमणसूत्राणि, (२) चूर्णाववधारिता ग्रन्था, (३) ग्रन्थकाराः, (४) साक्षिपाठाः, (५) विशिष्टनामानि, (६) अतिदिष्टदृष्टान्तानां ग्रन्थादिश्चेति ।।
प्रश्नः-अस्यामवचूरौ द्वाविंशतितमे पत्रे इयं पक्ति:-"ज्ञानाद्याचारपञ्चकविशेषव्याख्यादि मत्कृतश्राद्धविधिप्रकरणादवधाय” इति सा चैवाक्षरावली अर्थदीपिकायां (प० ५) अस्ति । अतो विदुषामयं प्रश्नः-यत् ज्ञानाद्याचारविशेषनिरूपणं न श्राद्धविधौ कित्वर्थ कौमुद्यामस्ति, ततः कया रीत्येयं सङ्घटितव्यम् ।
अन्त्यभागवर्तिन्याः (अव०प०४६) गाथायाः कोऽर्थः । क्षतयः शोधयित्वोपयुञ्जन्तु सजना इति प्रार्थयावहे। श्रमणोपासकानामतीवोपयोगी अयं प्रन्थः, अतः तैरुपयुजितव्योऽयम् ।
इति ज्ञापको वीर २४७७ विक्रम २००७ मितेऽन्दे
आगमोद्धारकाणां श्रीनेमिजन्मकल्याणकदिने
विनेयौ पुण्यपत्तने (पूणा)
कञ्चनविजय-क्षेमकरसागरी
Jain Education
For Private & Personel Use Only
No.jainelibrary.org