________________
Jain Education
'जहा विसं कुट्टगय' मित्यादि, विषं द्विधा - स्थावरं जङ्गमं च, स्थावरं द्रुमादीनां जङ्गमं वृश्चिकसर्पादीनां ततो यथा विषं कोष्ठकगतं - उदरगतं, व्याप्तशरीरमित्यर्थः, मन्त्रा - गारुडादयो मूलानि - तत्र पुष्यादीनि, अनेन तन्त्राद्यपि सूचितं, तेषु विशारदा-गुर्वाम्नायाभ्यासादिना दृष्टप्रत्ययाः विद्यामन्त्रवादिनो घ्नन्ति - नाशयन्ति मन्त्रैस्ततस्तत्पात्रं निर्विषं भवति, यद्यप्यसौ विषार्त्तस्तेषां मन्त्राक्षराणां न तथाविधमर्थमवबुध्यते तथाऽप्यचिन्त्यो मणिमन्त्रौषधीनां प्रभाव इति तदक्षरश्रवणेनापि तस्य गुणः सम्प्रतिपद्यते, यथा स्थविरापुत्रस्य हंसस्य दुष्टाहिदष्टस्य निश्चेष्टस्य मान्त्रिकैस्त्यक्तस्य शोकार्त्तजनन्या मुहुर्मुहुर्हसहंसेति पुत्रनामग्रहणार्थं पूर्वं रात्रौ नानाविलापकरणं हंसेति गारुडमन्त्रबीजाक्षरश्रवणादेव सर्वाङ्गविषव्यपगमादि, यथा वा अज्ञातगुणोऽप्यग्निः प्रत्यासन्नो बालस्य शीतं व्यपनयति, जलं वा पीतं तृष्णां मुष्णाति, इक्षुगुडादिर्वा तस्य ( वान्ति) सुस्वादुतां तुष्टिं च पुष्णाति, एवं मतिमांद्यादिना सूत्राणां सम्यगर्थानवगमेऽपि प्रतिक्रमेण प्रतिक्रामकस्य कर्म्म| क्षयः स्यादिति भावः, लोकेऽपि श्रूयते कश्चित् केनचित् पृष्टः- आम्राणि लास्यसि राजादनानि वेति, तेनोक्तं आम्राणि न राजादनानि एवं लोकभाषयाऽन्यार्थेऽपि नारायणनामग्रहणात्तस्य राज्यादिमहाफलमभूदित्यष्टत्रिंशगाथार्थः ॥ ३८ ॥ दान्तिकं योजयति
' एवं अट्ठविहं कम्म 'मित्यादि, एवमष्टविधं ज्ञानावरणीयादि कर्म्म- रागद्वेषसमर्जितं गुरुपार्श्वे आलोचयन्नात्मसमक्षं निन्दंश्च क्षिप्रं - शीघ्रं हन्ति - जीवप्रदेशेभ्यो वियोजयति, सुश्रावको - जिनवचनवासितात्मा, सुश्रावक इत्यत्र सुशब्दः पूजार्थः, स च पट्र्स्थानयुक्तभाव श्रावकत्वस्य सूचकः, यतः - " कयवयकम्मो १ तह सीलवं च २ गुणवं च ३ उज्जुववहारी ४ ।
For Private & Personal Use Only
*************
सदृष्टान्त
आलोच
नाप्रभावः
jainelibrary.org