SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ALTRA वस्य गन्धादिकप्रतिबन्धकत्वेन तस्य भूतचतुष्कप्रकृतित्वायोगात् , पार्थिवादिशरीरे जलादिधर्मस्यौपाधिकत्वात् । न चैवं परात्मरूप-स्पर्शादीनामिव तत्समवेतज्ञानादीनामपि चाक्षुष-स्पार्शनप्रसङ्गः, रूपादिषु जातिविशेषमभ्युपगम्य रूपान्यतद्वत्वेन चाक्षुष प्रति, स्पर्शान्यतद्वत्वेन च स्पार्शनं प्रति प्रतिबन्धकत्वकल्पनात्, इत्थमेव रसादीनामचाक्षुष-स्पार्शनवनिर्वाहात् । न चोक्तस्मरणानुपपत्तिः, पूर्वघटनाशानन्तरं खण्डघटे कारणगुणक्रमेण तद्गुणसंक्रमवत् पूर्वशरीरनाशोत्तरमुत्तरशरीरे पूर्वशरीरगुणसंक्रमात् । न चैवमवयविज्ञानादाववयवज्ञानादिहेतुताकल्पने गौरवं, फलमुखत्वात् । माऽस्तु वाऽवयवी, विजातीयसंयोगेनैव । तदन्यथासिद्धेः । तथाच शरीरान्तरोत्पादेऽपि शरीरत्वघटकविजातीयसंयोगविशिष्टाऽणुत्तिसंस्कारात् तादृशस्मरणोपपत्तिः । न च परात्मनोऽपि योग्यत्वात् स्वात्मन इव प्रत्यक्षत्वप्रसङ्गः, तत्तदात्ममानसे तत्तदात्मत्वेन हेतुत्वात्ः परेषां तु तत्तदात्मप्रत्यक्षत्वावच्छिन्नं प्रेति हेतुत्वे विनिगमनाविरहः । किञ्च, एवं संयोगस्य पृथक्प्रत्यासत्तित्वाऽकल्पने लाघवम् । न च घणुक-परमा. णुरूपाद्यप्रत्यक्षत्वाय चक्षुःसंयुक्त-मह-दुद्भूतरूपवत्समवायत्वादिना प्रत्यासत्तित्वे त्रुटिग्रहार्थ संयोगस्य पृथक्मत्यासत्तित्वकल्पनमावश्यकमिति वाच्यम् । द्रव्य-तत्समवेतप्रत्यक्षे उद्भूतरूप-महत्त्वयोः समवाय-सामानाधिकरण्याभ्यां स्वातन्त्र्येण हेतुत्वे दोषाभावात्। | अपि च, एवमुद्भूतरूपकार्यतावच्छेदकं द्रव्यप्रत्यक्षत्वमेव, न त्वात्मेतरत्वमपि तत्र निविशत इति लाघवमित्याहुः । तत्रोच्यते DiscleTERDISE DAARAGRAMPARमरामनगरमाथा १ख.ग.प.च. 'रणायुप'। २ ख.ग.प.च. 'प्रत्यपि हे। Jain Education in For Private & Personel Use Only AY! www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy