________________
शास्त्रवार्ता -
॥ ३१ ॥
Jain Education Inter
मृतदेहे च चैतन्यमुपलभ्येत सर्वथा । देहधर्मादिभावेन, तद् न धर्मादि नान्यथा ॥ ६५॥ मृतदेहे व सर्वथा जीवशरीरकालीनप्रकारेण देहधर्मादिभावेन देहधर्मत्व-देहकार्यत्वाभ्यां चैतन्यमुपलभ्येत, देहत्व - देहरूपादिवदिति भावः अन्यथा योग्यानुपलम्भेन तदभाव एव स्यात् । तथाच तच्चैतन्यं तद्धर्मादि न- तद्धर्मभूतं, कार्यभूतं चन, वेsपि तदभावात्, घटत्व-घटरूपादिवदिति भावः ।। ६५ ।
यद् यद्धर्मादिकं न, तत् तद्भावे न भवति, इत्यत्र व्यभिचारमाशङ्कय समाधत्ते
न च लावण्य- कार्कश्य-श्यामत्वैर्व्यभिचारिता । मृतदेहेऽपि सद्भावादध्यक्षेणैव संगतेः॥ ६६ ॥
नच लावण्य-कार्कश्य-श्यामत्वैः शरीरधर्म-कार्यैः, मृतदेहसच्येऽपि तदभावाद् व्यभिचारितेति वाच्यम्, अध्यक्षेणैव संगतेः परिच्छेदात् मृतदेहेऽपि सद्भावात् तेषां विना विषयं प्रत्यक्षायोगात् ॥ ६६ ॥
ननु रूपमात्रं तत्रोपलभ्यते, न तु बलवद्धातूपग्रहजन्यं लावण्यादि । किञ्च, उक्तनियमोऽप्यसिद्धः, पाकजरूपादिना व्यभिचारात्, तदेशत्व- तत्संख्या- तत्परिमाणोपर्यवस्थापितकर्पराद्यपात्प्रत्यक्षोपलभ्यत्वाद्यापत्तिभिया तत्र परमाणुपर्यन्तनाशानभ्युपगमात् । अत आह
१ तच्छब्देन देहः । २ देहभावेऽपि । ३ चैतन्याभावात् । ४ लावण्यादीनामभावात् । ५ लावण्यादीनाम् ।
For Private & Personal Use Only
सटीकः ।
॥ ३१ ॥
www.jainelibrary.org