SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Sacceleroceecccccc न चेल्लावण्यसद्भावो न स तन्मात्रहेतुकः। अत एवान्यसद्भावादस्त्यात्मेति व्यवस्थितम्६७ चेद् यदि, मृतदेहे लावण्यसद्भावो न, तदा स लावण्यसद्भावः, तन्मात्रहेतुको न-देहमात्रप्रयोज्यो न, तन्मात्रहेतुकत्वे तद्रूपादीनामिव तत्सत्त्वेऽनाशप्रसङ्गात् । तन्मात्रहतुकत्वमत्र तत्सामग्रीसमनियतसामग्रीकत्वम् , अतो न तद्रूपादावपि हेत्वन्तरसत्त्वादनुपपत्तिः । अस्तु तर्हि तंत्र तैदा गत्वरं हेत्वन्तरम् , अत्राह- अत एव- तैदा लावण्याभाववच्चैतन्याभावस्याऽप्यन्याभावप्रयोज्यत्वादेव, तादृशान्यपदार्थसद्भावात् , अस्त्यात्मा शरीरातिरिक्तं चैतन्योपादानम् , इति व्यवस्थितं सिद्धम् ॥ ६७ ॥ पर आहन प्राणादिरसौ मानं किं तद्भावेऽपितुल्यता। तदभावादभावश्चेदात्माभावे न का प्रमा?॥६॥ असौ चैतन्याभावप्रयोजकाभावप्रतियोगी, प्राणादिर्न किन्त्वात्मा, अत्र किं मानम् ? । उत्तरवाद्याह प्रतिबन्धा'प्राणाधभावस्यैव' इति शेषः, तद्भावेऽपि चैतन्याभावप्रयोजकाभावप्रतियोगित्वेऽपि, तुल्यता- किं मानम् ? इत्यर्थः । तदभावात् प्राणाद्यभावात् , अभावः 'चैतन्यस्य' इति शेषः, तथा चाऽन्यथाऽनुपपत्तिरेव मानमिति चेत् । तर्हि आत्माभावे न चैतन्याभावः, 'इत्यत्र च' इति शेषः, का प्रमा किं प्रमाणं? न किञ्चित् , अन्यथाऽनुपपत्तेरेकत्र पक्षपातायोगादिति भावः ॥६८॥ पर आह १ तच्छब्देन देहः । २ देहे। ३ मृतावस्थायाम् । ४ प्राणादिसनवं विना चैतन्यस्यानुफ्पत्तिः । बावनक्षलवाल Jain Education literational For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy