________________
शास्त्रवार्ता- तेन तद्भावभावित्वं न भूयो नलिकादिना। संपादितेऽप्यतत्सिद्धेः सोऽन्य एवेति चेन्न तत्६९ सटीकः । ॥ ३२ ॥
तेन सह प्राणादिना सह, तौ भावौ- अन्वय-व्यतिरेको तद्भावित्वं तत्पतियोगित्वं 'तत्र मानम्' इति शेषः, हेतुत्वेन क्लृप्तस्य तस्यैव कार्याभावप्रयोजकाभावप्रतियोगित्वकल्पनौचित्यादिति भावः। अत्रोत्तरम्- न, अन्वय व्यतिरेकप्रतियोगित्वमेव प्राणादेरसिद्धमित्यर्थः । कुतः?, इत्याह- भूयो मरणोत्तरं, नलिकादिना, आदिशब्दाद् वस्त्यादिग्रहः, संपादितेऽपिअन्तःसंचारितेऽपि 'वायौं' इति शेषः, अतत्सिद्धेश्चैतन्यानुत्पत्तेरन्वयव्यभिचारादिति भावः। पर आह-स नलिकादिना संपादितो वायुः, अन्य एव न प्राणः, इति न व्यभिचारः । उत्तरवाद्याह- इति चेत्, न तद् यदुक्तमेतत् ॥ ६९॥
कुतः, इत्याहवायुसामान्यसंसिद्धेस्तत्स्वभावः स नेति चेत्। अत्रापि न प्रमाणं वश्चैतन्योत्पत्तिरेव चेत् ७०
वायुसामान्यसंसिद्धेः- कोष्ठान्तःसंचारियायुत्वं हि प्राणत्वम् , ततः कोष्ठान्तःसंचार-वायुत्वयोस्तत्र सिद्धेः कथं न प्राणत्वम् ? इति भावः । पर आह- से चैतन्यजननस्वभावो न, अतो न प्राणः । अत्राह- इति चेत् , अत्रापि चैतन्यजननस्वभावत्वेऽपि, वो युष्माकं, न प्रमाणम् , अप्रत्यक्षत्वात् तस्यं । चैतन्योत्पत्तिरेवाऽन्यथानुपपद्यमाना प्रमाणमिति चेत् ॥ ७० ॥
प्राणाद्यभावस्यैव । २ कार्यमत्र चैतन्यम् । ३ मृतदेह नलिकादिना संपादितस्य प्राणवायोः सत्वेऽपि चैतन्यस्याऽसत्त्वेन 'तत्सत्वे सत्त्वं' इति लक्षणस्याऽन्वयस्थाऽभावादित्यर्थः । ४ मृतदेहे । ५ नलिकादिना संपादितो वायुः । ६ चैतन्यजननस्वभावत्वस्य । पूर्वपक्षवचनम् । ८ प्राणादि विना।
॥३२॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org