SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ PASSETTA न, तस्यामेव संदेहात्तवाऽयं केन नेति चेत् । तत्तत्स्वरूपभावेन तदभावः कथं नु चेत् ॥ न, तस्यामेव चैतन्योत्पत्तावेव, 'किमियं प्राणप्रयोज्या, उताऽऽत्मप्रयोज्या' इति संदेहात् । तथाचाऽन्यथासिद्धत्वशङ्कया न तंत्र कारणत्वनिश्चय इति भावः । आत्मन्यप्ययं संदेहः, केन मानेन न, येन तत्रं कारणत्वनिश्चयः स्यात् ?, इति चेत् । तस्य चैतन्यस्य तत्स्वरूपभावेनाऽऽत्मधर्मानुविधायित्वेन, तथा चाऽऽत्मनि चैतन्यधर्मानुविधायकत्वेन विशेषदर्शनादन्यथासिद्ध| त्वशङ्कानिरास इति भावः । नन्वेवं प्राणस्य चैतन्योपादानत्वं माऽस्तु, निमित्तत्वं त्वविरुद्धमेव, तन्नाशादेव च चैतन्यनाशः, आत्माभ्युपगमेऽपि नित्यत्वेन तस्य नाशाऽयोगात् । न च तच्छरीर आत्मसंयोगनाशाच्चैतन्याभावः, 'विभुत्वेन तत्संयोगस्याऽपि सार्वत्रिकत्वात् , चैतन्योपादानं च प्रागुक्तरीत्या शरीरमेव, इति नव्यनास्तिकस्य न दूपणम् । इति चेत् । न, प्राणनाशं विनाऽपि सुषुप्त्यादी ज्ञानादिनाशाद् तेन्नाशस्य तन्नाशाहेतुत्वात् । एतेन 'विजातीयमनःसंयोगस्य नाशस्येव स्वप्रतियोगिजन्यत्वसंबन्धेन प्रतियोगितया ज्ञानादिनाशे हेतुत्वमस्तु' इत्यपास्तम्, सुषुप्तौ श्वास-प्रश्वासादिसंतानानुरोधेन विजातीयमनःसंयोगसत्वस्याऽप्यावश्यकत्वात् । अथ जीवनयत्नसत्त्वादेव तदा श्वास-प्रश्वासादिसंतानः, तन्नाशश्च प्रारब्धादृष्टनाशादेव, इति तदन्यनाशे विजातीयमनःसंयोगनाशो हेतुरिति चेत् । न, एवं सत्यावश्यकत्वात् सर्वत्राऽदृष्टनाशादेव ज्ञानादिनाशाभ्युपगमौचित्यात् । प्राणे । ३ संशयस्य निश्चयप्रतिबन्धकवादित्यर्थः । ३ संदेहाभावेन । " आत्मनि । ५ इतो 'न दूषणम्' इति पर्यन्तः पूर्वपक्षः । ६ तच्छब्देन प्राणः । ५ चैतन्यस्य । ८ व्यापकत्वेन । ९प्राणनाशस्य । १० चैतन्यनाशाहेतुत्वात् । Soc Join Education in For Private Personal Use Only AYTwiainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy