________________
सटीकः ।
शाखवाता- अत एव विजातीयमनःसंयोगेऽपि न मानमस्ति, अदृष्टविशेषपरिपाकवशादेव सुषुप्त्यादिकाले ज्ञानानुत्पादात, परेणाऽपि मनसो ३७ निरिन्द्रियप्रदेशगमने तैस्य शरणीकरणीयत्वात् । अदृष्ट च धर्मिग्राहकमानेन प्रत्यगात्मनिष्ठमेव सिद्धमिति नास्तिकः । न च
विशिष्टाणुवृत्तित्वमेव तस्य न्याय्यम् , अनेकाश्रयकल्पनात एकाश्रयकल्पने लाघवात् , शरीरत्वघटकसंयोगस्यैवाऽऽत्मत्वघटकत्वेनाऽऽत्मत्व-शरीरत्वयोस्तुल्यवित्तिवेद्यत्वप्रसङ्गाच्च । आत्मत्वघटकसंयोगस्य भिन्नत्वे त्वात्मन एव भिन्नत्वं किमिति हन्त ! न रोचयेः ? इति किमतिविस्तरेण ? । परः शङ्कते- ननु चैतन्ये तदभावः प्राणधर्मानुविधायित्वाभावः, कथम् ? । 'नु' इति | वितर्के । 'अहमशनीयावान् , अहं पिपासावान् ' इत्यशनीया-पिपासयोः प्राणधर्मयोरहत्वसामानाधिकरण्येनाऽनुभवात् “अन्योRANSन्तरात्मा प्राणमयश्च " इति श्रुतेश्च प्राणस्य चैतन्यानभ्युपगमे महान् वितर्कावसर इति भावः । अत्रोच्यते- इति चेत् ॥७१।। तिद्वैलक्षण्यसवित्तेर्मातृचैतन्यजे ह्ययम्। सुते तस्मिन्न दोषः स्यान्न न भावेऽस्य मातरि॥७२॥
तद्वैलक्षण्यसंवित्तेः प्राणधर्मसामानाधिकरण्येनाप्रमीयमाणत्वाद् नैवमित्युपस्कारः, न हि प्राणधर्मः स्पर्शविशेषादिरहत्वसामानाधिकरण्येनाऽनुभूयते, तथाऽनुभूयमाने पुनरशनीया-पिपासे इच्छात्मकत्वादात्मधर्मावेव, न तु प्राणधौं, इति न प्राण एवाऽऽत्मा । अस्तु तर्हि 'कायाकारपरिणतं भूतमात्मा' इति मौलमेव मतम् 'अहं स्थूलः' इत्यादितद्धर्मसामानाधिकरण्येनाऽनुभवात् इति विस्मृतप्रागुक्तदोषः शङ्कते- अयम्- उक्तो दोषः, हि निश्चितं, मातृचैतन्यजे सुते पुत्रशरीरे, तस्मिन्
। पूर्वपक्षवादिना । २ विजातीयमनःसंयोगस्य । ३ अदृष्टस्य । ४ अशनीया बुभुक्षा । ५ तदा भूतानि परामृश्यन्ते ।
HISTOSTERESUB
॥३३॥
in Education Inter
For Private & Personal Use Only
HE
www.jainelibrary.org