SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Sपि सुषुप्तिप्राक्कालानविकल्प गोमयादपि वृश्चिकप्रादुभविदा मातार मातृशरीरेऽभ्युपग SAPAN चैतन्येऽभ्युपगम्यमाने न स्यात्। न हि सुतचैतन्यहेतोचैतन्यस्याऽभावोऽस्ति, येनाऽनुगतहेतुतयाऽऽत्मसिद्धिः स्यात, मातृचैतन्यस्यैव तद्धेतुत्वात्, व्यवधानेनाऽपि सुषुप्तिमाक्कालीनविकल्पस्य जागरविकल्पहेतुत्वदर्शनात् । न च मातृचैतन्य-सुतचैतन्ययो(लक्षण्याद् न हेतु-हेतुमद्भाव इति सांपतम्, वृश्चिकादिव गोमयादपि वृश्चिकप्रादुर्भावदर्शनाच्चैतन्येऽपि माता-पितृशुक्र-शोणिता-ऽभ्यास-रसायनादिनानाहेतुकत्वाविराधादिति । अत्राई- अस्य चैतन्यहेतुचैतन्यस्य, मातरि मातृशरीरेऽभ्युपगम्यमाने, दोषो न इति न, किन्तु दोष एव, मातृनिष्ठस्य चैतन्यस्य सुतनिष्ठचैतन्यहेतुत्वे गर्भस्थेन भ्रूणेन मात्रनुभूतस्मरणप्रसङ्गात् । किञ्च, गोमय-वृश्चिकजन्यवृश्चिकयो(जात्यस्याऽनुभवसिद्धत्वेन तेदवच्छिन्नयोर्गोमय-वृश्चिकयोर्हेतुत्वेऽपि, चैतन्ये विशेषादर्शनात् तैत्र चैतन्यमेव हेतुः, न तु मातृशरीरादिकम् । प्रज्ञा-मेधादिविशेषेऽप्यन्तरणतया समानजातीयपूर्वाभ्यासस्यैव हेतुत्वम् , अन्यथा समानेऽपि रसायनाद्युपयोगे यमजयोः कस्यचित् कचिदेव प्रज्ञा-मेधादिकमिति प्रतिनियमो न स्यात् , रसायनाशुपयोगस्य साधारणत्वात् । इति न मातृचैतन्यात् सुतचैतन्यम् । न चेन्द्रियसंनिकर्षादिनैव ज्ञानोत्पत्ती सामान्यतो ज्ञानं प्रति ज्ञानहेतुत्वे मानाभावः, सुषुप्तौ ज्ञानानुत्पत्तिनिर्वाहायोपयोगस्य ज्ञानहेतुत्वसिद्धे, इत्यन्यत्र विस्तरः ॥ ७२ ॥ दोषान्तरमप्याह 'उत्तरम्' इति शेषः । २ वैजात्यावच्छिन्नयोः । ३ चैतन्ये । ४ युगपज्जातयोः। ५ सुषुप्तावपि मनसः शरीरव्यापित्वेन कक्षीकृतस्य स्पर्शनादीन्द्रियेण, स्पर्शनादेश्च तूलिकादिना संनिकर्षसगावात साकल्येनेन्द्रियसंनिकर्षादेः कारणस्य सत्वेऽप्यनुपजायमाना ज्ञानोत्पत्तिस्तदतिरिक्तमर्थग्रहणब्यापाररूपं ज्ञानापरनामानमुपयोगरूपं हेतुमाक्षिपतीति हृदयम् । मनसः शरीरच्यापित्वं च रखाकरे स्पष्टम् । Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy