________________
SRIROIN
सटीकः।
शास्त्रवार्ता॥३०॥
SEARINISTRATHAMELESH
कुतः ?, इत्याहअदृष्टाकाश-कालादिसामग्रीतः समुद्भवात् । तथैव लोकसंवित्तेरन्यथा तदभावतः॥६३॥ ___अदृष्टा-ऽऽकाश-कालादिसामग्रीतः समुद्भवात् तदुत्पादाभ्युपगमात् । तथा लोकेन न प्रतीयते, इत्यत्राह-तथैव- उक्तवदेव, लोकसंवित्तेर्युत्पन्नलोकमतीतेः । अन्यथा- एवमनभ्युपगमे, तदभावतो विचित्रताऽभावप्रसङ्गात् ॥ ६३ ॥
सबैलॊकैस्तथा न प्रतीयत इति चेत् । अत्राहन चेह लौकिको मार्गः स्थितोऽस्माभिर्विचार्यते।किन्त्वयं युज्यते क्वेति त्वन्नीतौ चोक्तवन्न सः
न चेह तत्त्वपरीक्षायां, लौकिकोऽव्युत्पन्नलोकमात्राश्रितः, स्थितो मार्गः- 'किमयमित्थं स्थितः ?' इतिसंशयोपारूढोऽर्थः, अस्माभिर्विचार्यते- गतानुगतिकतया तद्वदेव संदिह्यते । किन्तु 'अयमित्थंभूतोऽर्थः क युज्यते ?" इत्यादिजिज्ञासाक्रमेण परीक्ष्यते । परीक्ष्यमाणश्चोक्तवद्- उक्तरीत्या, त्वन्नीतौ त्वदभ्युपगमे, स यथास्थितोऽर्थो न घटते ॥ ६४ ॥
अत्र नव्यनास्तिकाः- अवच्छेदकतया ज्ञानादिकं प्रति तादात्म्येन कल्प्यकारणताकस्य शरीरस्यैव समवायेन ज्ञानादिकं प्रति हेतुत्वकल्पनमुचितम् । न चैवमात्मत्वं जातिनं स्यात् , पृथिवीत्वादिना साङ्कादिति वाच्यम् , उपाधिसार्यस्येव जातिसाङ्कर्यस्याऽप्यदोषत्वात् । न च तथापि भूतचतुष्कप्रकृतित्वेन शरीरमतिरिच्येत, स्वाश्रयसमवेतत्वसंबन्धेन गन्धाद्यभा
A
GRAPHYAPARIPH
॥३०॥
Jan Education inte
For Private Personal use only
www.jainelibrary.org