________________
तथाच कायभावे च, भूतमात्रत्वे- विश्वस्य भूतकस्वरूपत्वे, सेषां भूतानां संघातभेदयोः शरीर-घटादिभेदयोः, | भेदकाभावतो भेदो न युक्तः, इति सम्यगुक्तनीत्या परमार्थविचारेण, विचिन्त्यतां परामृश्यताम् ॥ ६॥ एकस्तथाऽपरो नेति तन्मात्रत्वे तथाविधः। यतस्तदपि नो भिन्नं ततस्तुल्यं च तत्तयोः॥६॥
यतो यस्मादापाततः प्रतीयमानाद् निमित्तात् , एको भूतसंघातो देहादिरूपः, तथा देहादिरूपत्वेन, अपरो घटादिरूपः, तन्मात्रत्वे भूतसंघातमात्रत्वे, अपिर्गम्यते, तन्मात्रत्वेऽपीत्यर्थः, तथाविधो देहादिरूपो न, इति- एतादृशो विभागः 'उच्यते' इति शेषः तदपि निमित्तं, नो भिन्नं भूतातिरिक्तं, तत्त्वान्तरप्रसङ्गात् । ततस्तस्माद्धेतोः, तयोर्देह-घटादिरूपयोर्भूतसंघातयोः, तच्च भूतमात्रत्वं च, तुल्यम् । अतः शरीरस्य नाऽऽत्मत्वमिति भावः ॥ ६१ ॥
अनभिज्ञः सन् पुनः शङ्कतेस्यादेतद्भूतजत्वेऽपि ग्रावादीनां विचित्रता।लोकसिद्धेति सिदैव न सा तन्मात्रजा न तु६२ ।
स्यादेतद् भूतजत्वेऽपि ग्रावादीनां पाषाणादीनां, विचित्रता घटादिभ्यो विलक्षणवर्ण-स्पर्शादिरूपा, लोकसिद्धेति, न हि सा नास्तीति वक्तुं शक्यते, प्रत्यक्षसिद्धस्याऽर्थस्य प्रतिक्षेपाऽयोगात् , तथा शरीरविचित्रताऽप्युपपत्स्यत इत्याशयः। अत्राहKo सिद्धैव सा-न सा प्रतिक्षिप्यते, तु पुनः, तन्मात्रजा न- भूतमात्रजा न ॥ ६२ ॥
PERSacodबाड
Jain Education Inten
For Private & Personel Use Only
PAdiw.jainelibrary.org