________________
Jain Education Intern
हवि-गुड-कणिक्कादिद्रव्यसंघातजान्यपि । यथा भिन्नस्वभावानि खाद्यकानि तथेति चेत् ॥
हविर्घृतम्, आदिशब्दाच्चातुर्जातकादिपरिग्रहः, तत्संघातजान्यपि खाद्यकानि यथा रस-वीर्यविपाककार्यभेदाद् हविरादिभिन्नस्वभावानि, तथा भूतसंघातजान्यपि शरीराणि चैतन्यकार्यभेदाद् घटादिभ्यो भिन्नस्वभावान्युपपत्स्यन्ते । अत्र कार्यभेदे स्वभावभेदः, स्वभावभेदे च कार्यभेद इत्यन्योन्याश्रय इति दोषे सत्येव कार्यभेदासिद्धिं दोषान्तरमाह । इति चेत् 'नैतदेवम्' इति शेषः ॥ ५६ ॥
व्यक्तिमात्रत एवैषां ननु भिन्नस्वभावता । रस- वीर्यविपाकादिकार्यभेदो न विद्यते ॥५७॥
यत एषां खाद्यकानां 'ननु' इत्याक्षेपे, भिन्नस्वभावता व्यक्तिमात्रत एव व्यक्तिभेदमात्राधीनैव । मात्रपदप्रयोजनमाहरस-वीर्य-विपाकादिकार्यभेदो- हविर्गुडादिकार्यरस-वीर्यविपाकादिविलक्षणहेतुत्वं न विद्यते । अयं भावः- कारणोत्कर्षात् कार्योत्कर्षेऽपि कार्यवैजात्यस्य कारणवैजात्याधीनत्वात् खाद्यकदृष्टान्तेनाऽसंहत भूतकार्यात् संहतभूत कार्योत्कर्षेऽपि चैतन्यलक्षणं विलक्षण कार्य विलक्षणमात्मानमेव हेतुमाक्षिपतीति ॥ ५७ ॥
शङ्कते -
तदात्मकत्वमात्रत्वे संस्थानादिविलक्षणा । यथेयमस्ति भूतानां तथा सापि कथं न चेत् ? ॥
For Private & Personal Use Only
v.jainelibrary.org