________________
शास्त्रवार्तास्वरूपत एव भेदो भविष्यति, इत्यत्राह
सटीकः । स्वरूपमात्रभेदे च भेदो भूतेतरात्मकः। अन्यभेदकभावेतु स एवाऽऽत्मा प्रसज्यते॥५५॥
___ स्वरूपमात्रभेदे चाऽविशिष्टस्वभावावच्छिन्नभेदे चाभ्युपगम्यमाने, भूतेतरात्मकः- भूतमितरयति यस्तादृश आत्मा । स्वरूपं यस्यैतादृशो भेदः स्याद् भूतान्यत्वं स्यात् 'नेदं भूतं' इति प्रतीतिसाक्षिकत्वाद् भूतस्वरूपभेदस्येत्यर्थः । एवं च भूतान्यत्वेन परिशेषादात्मासिद्धिरिति भावः । अस्तु तर्हि अनायत्या भेदकान्तरम्, इत्यत्राह- अन्यभेदकभावे तु भूतातिरिक्तभेदकसत्त्वे | तु, स एव भेदकत्वेनाऽभिमत एव, आत्मा प्रसज्यते, समानशुक्लपटेषु रागादिरिव; घटादितुल्येषु शरीरादिषु सात्मकत्वेनैव विशेषात् । न च सात्मकत्वसमनियतधर्माणामेव भेदकत्वम्, प्रत्येक विनिगमनाविरहमसङ्गात् । न च सात्मकत्वेनापि सम तत्पसङ्गः, अक्लुप्तेन समं तदभावात् । न च तादृशविशिष्टशरीरत्वेनैव चैतन्योपादानत्वम्, धर्मिग्राहकमानेन विशेषणस्यैव चैत
न्योपादानतया सिद्धः, तत्त्वेन परचैतन्यनिमित्तत्वादिति निष्कर्षः, तथाच न विशेषणकृतोऽपि संघातविशेष इति भावः । वस्तुतः Ho शरीरपरिणामिनामेव भूतानां नात्मोपग्रहं विना वैचित्र्यम् , तदुपग्रहश्च तत्सहकारित्वम् , तच्चाऽदृष्टद्वारा । तथाच शरीरं भोगसमानाधिकरणगुणसाध्यम् , भोगसाधनत्वात् , स्रगादिवत् , इत्यत्र तात्पर्यम् ॥ ५५ ॥ कार्यभेदादेव स्वभावभेदो भविष्यति, इत्याशङ्कते
॥२८ १ घटारम्भक-शरीरारम्भकाणां भूतानामिति शेषः । २ विनिगमनाविरहस्तदाऽनुकृप्यते ।
उहाहाकार
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org