________________
पराकत
DOOR
ननु स्थूलत्वमपि नाऽणुसंघातमात्रम् , यणुकादावभावात् , किन्तु 'संघातविशेष एव; एवं च चैतन्यमपि घटादिव्यावृत्तभूतसंघातविशेष एवेति नानुपपत्तिः, इति शङ्कतेअथ भिन्नस्वभावानि भूतान्येव यतस्ततः। तत्संघातेषु चैतन्यं न सर्वेष्वेतदप्यसत्॥५३॥
अथ यतो भूतान्येव शरीरारम्भकाण्येव, भिन्न स्वभावानि घटाद्यारम्भकस्वभावविलक्षणखभावानि । ततस्तत्संघातेषु शरीरेषु, चैतन्यं न सर्वेषु घटादिषुः एवं च संहन्यमानविशेषकृतः संघातविशेष इति भावः । अत्राह- एतदप्यसत् ॥ ५३॥ स्वभावो भूतमात्रत्वे सति न्यायाद्न भिद्यते । विशेषणं विना यस्माद् न तुल्यानां विशिष्टता ॥
यतो भूतमात्रत्वे सति भूतातिरिक्तभेदकाभावे सति, न्यायाद् युक्तितः, स्वभावो न भिद्यते । कुतः ?, इत्याह- यस्मात् कारणात् , तुल्यानां भूतत्वेन समानानां घट-शरीराद्यारम्भकाणां, विशेषणं विना विशिष्टता न भवति; भूतस्य भूतान्तरभेदो हि न वास्तवः, किन्तु विभिन्नधर्मप्रकारकबुद्धिविषयत्वलक्षणो भाक्त एव, विशेषणावच्छिन्नविशेष्यभेदात्मको वा, न च विभिन्नधर्म विना तैद्घाटिततत्संभव इति भावः । अत एव भूतान्तरनिष्ठकार्यजनकातिशयाऽन्याऽतिशयशालित्वलक्षणवैधर्म्यरूपो भेदोऽपि निरस्तः, तादृशातिशयस्य भूतातिरिक्तत्वे तेक्वान्तरप्रसङ्गात् , तदनरिक्तत्वे च स्वभावाभेदादिति दिग् ॥ ५४ ॥
त्र्यणुकादिविशिष्टसंघातः। २ तेन विभिन्नधर्मेण। ३ तस्य विशेष्यभेदस्व। भूतान्तरनिष्टकार्यजनकातिशयाऽभ्यातिशयस्य । ५ तथा च " चत्वार्येव तत्त्वानि" इति सिद्धान्तव्याघात इत्यर्थः । ६ तदा भूतानि ।
Jain Education B
o na
For Private & Personel Use Only
www.jainelibrary.org