________________
सटीकः।
ASHRAT
शास्त्रवार्ता
न चैवं द्रव्यरूपेणाऽणुषु स्थूलत्वस्यैव प्रत्येकावस्थायां भूतेषु तथाचैतन्यस्य सत्त्वेऽप्यनुपपत्तिविरहात् सिद्धं नः समी- To हितम् , इत्यत्राहन चैवं भूतसंघातमात्रं चैतन्यमिष्यते । अचिशेषेण सर्वत्र तद्वत् तद्भावसंगतेः॥५१॥
न चैवं- स्थूलत्वं यथाऽणुसंघातमात्रं तथा, भूतसंघातमा चैतन्यमिष्यते चार्वाकैः । तथेष्टौ को दोषः, इति तटस्थाशङ्कायामाह- अविशेषेण संघातातिरिक्तविशेषानभ्युपगमेन, सर्वत्र जीवच्छरीरवदन्यत्रापि, तद्वद् भूतसंघातवत् , तद्भावसंगतेय॑क्तचैतन्यसद्भावप्रसङ्गात् ॥ ५१ ॥
ततः किम् ?, इत्याहएवं सति घटादीनां व्यक्तचैतन्यभावतः। पुरुषाद्यविशेषः स्यात् स च प्रत्यक्षबाधितः॥५२॥
एवमुपदर्शितप्रकारेण, व्यक्तचैतन्यभावतः, तसः सप्तम्यर्थत्वाद् व्यक्तचैतन्यभावे 'सति' इति योजनीयम् । 'एवं सति' इत्यनेनोक्तार्थपरामर्श तु सर्वपदस्य घटादिरेवार्थ इति पौनरुक्त्यं स्यात् । घटादीनां पुरुषात्- जीवच्छरीरात्, न विशेषः स्यात् । न चायमपीष्टः, इत्याह- स च घटादीनां पुरुषाविशेषश्च, प्रत्यक्षबाधितः, घटादीनामचेतनत्वेन प्रतीतेः ॥ ५२ ॥
व्यक्तचैतन्यस्य । २ चार्वाकाणाम् । ३ घटादी। घटादीनाम् । , ५ पूर्वश्लोकस्थसर्वत्रपघटकस्य ।
HAमनावमा
Jain Education Inter
For Private & Personel Use Only
INEndow.jainelibrary.org