________________
Jain Education Inter
गम्यमाने' इति शेषः, कालनियमहेत्वभावात् सदा, देश नियमहेत्वभावाच्च सर्वत्र वा भवेत् 'तत्' इति योज्यते । अथ त्र्यणुकादेरेव महत्वपादानत्वाद् नाऽदलत्वम्, अन्यादृशमदलत्वं चाऽप्रयोजकम्, समवायेन जन्यसत्त्वावच्छिन्नं प्रति तादात्म्येन द्रव्यस्य हेतुत्वाच्च नातिप्रसङ्ग इति चेत् । न, समवायनिरासात्, ध्वंससाधारण्येनाऽपृथग्भावेन जन्यत्वावच्छिन्नं प्रत्येव द्रव्यहेतुत्वौचित्याच्च, इत्यन्यत्र विस्तरः । पृथगवयविन्यपि च न मानमस्ति, अनन्तावयव्यादिकल्पने गौरवात् । किञ्च, आवृता नानृतत्वाभ्यामपि भियत एवाsarवी, ज्ञानप्रतिबन्धकसंयोग-तदभावरूपयोरावृता ऽनावृतत्वयोर्भिन्नावच्छेदेन संभवेऽपि चाक्षुषविषयता- तदभावरूपयोस्तयोविना भेदमसंभवात् स्वरूपावहिर्भूताया विषयताया अव्याप्यवृत्तित्वायोगात् सकम्पत्व-निष्कम्पत्वाभ्यामपि तथाशरीरस्य निष्कम्पत्वे 'पाणौ न चलति' इत्यस्याऽपि प्रसङ्गात् । शरीरत्वादेरिव पाणेः कर्माऽभावानवच्छेदकत्वादयमदोष इति चेत् । न, चरणे कम्पदशायामपि 'पाणौ न चलति' इत्यनापत्तेः । न च दोषात् 'पाणौ न चलति' इति न प्रतीयत इति वाच्यम्, तादृशदोषकल्पने गौरवात् । किञ्च, एवमुक्तयुक्त्याऽग्रादिनिष्ठसंयोगादेरेव वृक्षादौ प्रतीत्युपपत्तौ संयोगादेरपि व्याप्यवृत्तित्वं स्यात् । अपि च, एवं शतमाषकेभ्यः शतमाषकाऽऽरब्धावयविनि गुरुत्वाधिक्यादवनतिविशेषः स्यात् । न चावयविन्यत्यन्तापकृष्टगुरुत्व स्वीकाराद् गुरुतरद्रव्ययोः समयोरुत्तोलने एकत्र संलग्नतृणादिगुरुत्वाधिकयादवनतिवदुपपत्तिः, तत्तदन्त्यात्रयवि - नात्यन्तापकृष्टगुरुत्व हेतुत्वे, उत्कृष्टगुरुत्वप्रतिबन्धकत्वे च गौरवात् इत्यन्यत्र विस्तरः । तस्मात् कथञ्चित् परमाण्वात्मकमेव स्थूलत्वं परमाणुषु सदेवोत्पद्यते, इत्युपचयेन सिद्धम् ॥ ५० ॥
१ स्थूलत्वम् । २ तदा ज्ञानप्रतिबन्धकसंयोगः । ३ तच्छन्देन चाक्षुपविषयता गृह्यते । ४ आवृतत्वानावृतत्वयोः ।
For Private & Personal Use Only
w.jainelibrary.org