________________
शाखवार्ता-
सटीकः।
॥२६॥
भेदादिप्रत्ययान्यथाऽनुपपच्या पृथगवयविसिद्धः । न चाऽऽनृतत्वा-ऽनादृतत्वाभ्यां तद्भेदः, अवच्छेदकभेदेनाऽविरोधात् । न चार्धातेऽप्यवयविनीन्द्रियसंनिकर्षसत्त्वे परिणामादिग्रहप्रसङ्गः, इष्टत्वात् , तद्गतहस्तत्वादिजातिग्रहे तु यावदवयवावच्छेदेन | संनिकर्षस्य हेतुत्वात् । न च 'पाणौ शरीरं सकम्पं, निष्कम्पं च चरणे' इतिप्रतीतेः सकम्पत्व-निष्कम्पत्वाभ्यां भेदः, तत्र पाणावेव कम्पस्वीकारात् 'पाणी शरीरं चलति' इतिप्रत्ययस्य परम्परासंबन्धेन पाणिवृत्तिकम्पावगाहित्वात् । न च कम्पाभावधीरेव परम्परासंबन्धेन चरणनिष्ठकम्पाभावमवगाहतामिति वाच्यम् , पाणिकर्मणैव प्रत्ययाद्युपपत्तावतिरिक्तशरीरकर्मकल्पनायां गौरवात् । न चैवं कर्मणस्त्रुटिमात्रगतत्वापत्तिः, सर्वावच्छेदेनोपलभ्यमानकर्मवति शरीरादौ कर्माभावोपलम्भप्रसङ्गात् । एतेन 'शरीर एवाऽस्तु क्रिया, नानावयवे तत्कल्पने गौरवात्' इत्यपास्तम् , पाण्यादौ कर्माभावोपलम्भापत्तेः । न च परम्परासंबन्धस्य दोषत्वम् , चरणादावपि तेदनापत्तेः, दोषत्वकल्पने गौरवाच्च, इत्याशङ्कायामाहभेदे तददलं यस्मात्कथं सद्भावमश्नुते । तदभावेऽपि तद्भावे सदासर्वत्र वा भवेत्॥५०॥
भेदे स्थूलत्वस्याणुभ्यः सर्वथा पृथग्भावे, अदलं सत् तत् स्थूलत्वं, यस्मात् कथं सद्भावमश्नुते- सत्ताव्यवहारं कथं प्राप्नुयात् ?, सर्वथा द्रव्यपृथग्भूतत्वे शशशृङ्गवदसत्त्वप्रसङ्गात् । किञ्च, तदभावेऽपि दैलाभावेऽपि, तद्भावे स्थूलत्वोत्पादे 'अभ्युप, अवयविभेदः, आवृतत्वाऽनावृतत्वयाविरुद्धधर्मत्वात् , विरुद्धधर्माध्यासस्य च भेदनिबन्धनस्वात् , “विरुद्धधर्माध्यासः, कारणभेदश्च भेदहेतुः,
महतु स चेन्न भेदको विश्वमेकं स्यात् " इति बौद्धाम्नायादिति भावः । २ तस्य कर्माभावोपलम्भस्याऽनापत्तेः । ३ उपादानाभावेऽपि ।
॥२६॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org