________________
स्वभावापरनाम्ना परमाणुगतातिशयेनैव द्रव्योत्पत्तिसंभवात्ः स चातिशयः शक्तिः, अन्यो वा इत्यन्यदेतत् । एवं च दशतन्तुकादेश्चरमतन्तु संयोग-वियोगक्रमेणेव प्रथमतन्तुसंयोग-वियोगक्रमेणाऽपि नवतन्तुकोपलब्धिर्निराबाधा, नवपर्यन्तैरिव द्वितीयादिभिरपि नवतन्तुभिरतिशयितैर्नवतन्तुकाऽऽरम्भात् । न चैवं प्रतिलोमक्रमेणाऽनन्तपटकल्पनाऽऽपत्तिः, द्वितीयमादाय नवतन्तुकस्येव तृतीयमादायान्तुकस्याऽपि स्वीकर्तव्यत्वादिति वाच्यम्ः इष्टत्वात्, एकानेकस्वभावाविरोधात्, एकतन्तु संयोगविगमाभिव्यञ्जकाभावादेवाऽष्टतन्तुकाद्यनुपलब्धेः अत एव महति पढे 'एकः पटः' इति प्रतीतिर्नाऽनुपपन्ना अङ्गुलीभूतलसंयोगावच्छेदेन पाण्याद्यनन्तसंयोगानुपलब्ध्यादिवद् वा पटान्तरानुपलब्धेरिति दिग् ।
ननु तथापि पूर्वावस्थानाशेनैवोत्तरावस्थाभ्युपगमात् तन्त्वादिपरिणामनाशेनैव पटादिपरिणामोत्पत्तेः पटकाले तन्तुमतीतिर्न स्यात्, नष्टस्याऽतीतवदग्रहणादिति चेत् । न, द्विविधो हि विनाशः- प्रांयोगिकः, वैस्रसिकश्च । आद्यः समुदयजनित एव, अन्त्यस्तु द्विविध:- समुदयजनितः, ऐकत्विकच । अन्त्यो धर्मादीनां गत्याधारत्वादिपर्यायोत्पादस्य तदनाधारत्वध्वंस पूर्वकत्वेनान्ततः क्षणध्वंसे तद्विशिष्टध्वंसनियमाच्चोपेयः । समुदयजनितश्च द्विभेदः समुदयविभागलक्षणः, अर्थान्तरगमनलक्षणश्च । तत्राऽऽयस्य प्रतियोगिप्रतिपत्तिविरोधित्वेऽपि, अन्त्यस्या तथात्वानुपपत्तिविरहादिति दिक् ।। ४९ ।।
ननु न स्थूलत्वं परमाण्वभिन्नम्, गुण-गुणिनोर्भेदात्, कारणबहुत्व-कारणमहत्त्व प्रचयक्रमेणोत्पन्नस्य तेस्याऽवयविनि - ठत्वाच्च । न चावयविनि मानाभावः, विलक्षणसंस्थानावच्छेदेन संनिकर्षाद् यद्द्रव्यगतघटत्वादिग्रहस्तत्तव्यक्तेरुत्पाद- विनाश१ प्रयोगजन्यः । २ स्वाभाविकः । ३ प्रतियोगिप्रतिपत्यविरोधित्वात् । ४ पटकाले तन्पुप्रतीतेरुपपत्तेः । ५ स्थूलत्वस्य ।
Jain Education Intional
For Private & Personal Use Only
www.jainelibrary.org