________________
।
शासवार्ता
सटीकः ।
॥ २५॥
doo
प्रमाणाविरोधात् , तदन्यभेदेन तत्वसाधनाद् न हेतु-साध्ययोरविशेषः । एवं च स्थूलत्वस्य प्रागपि द्रव्यरूपेण सत्त्वं सिद्धम् ।
. अत्रेयं प्रक्रिया- अणूनामेवैकत्वसंख्या-संयोग-महत्त्वा-ऽपरत्वादिपर्यायैरुत्पत्तिः, बहुत्वसंख्या-विभागा-ऽणुपरिणाम-परत्वादिपर्यायैश्चाऽनुत्पत्तिः। न च विशिष्टाऽण्यतिरिक्तमवयवि द्रव्यमस्ति । न चैवं विभक्तस्येव संहतस्याऽप्यणोरचाक्षुषत्वं स्यादिति वाच्यम् , 'नानाखभावत्वेन तस्य तदा चाक्षुषजननस्वभावत्वात् , विप्रकृष्ट-सन्निकृष्टेषु रेण्वादिषु तथास्वाभाव्यदर्शनात् , प्रतिपत्तिपत्तारं च प्रति नियमेनाऽनतिप्रसङ्गात्' इति बहवः । 'व्यणुकत्वादिघटकसंयोगानां पिशाचत्वादिघटकसंयोगभिन्नानां वैजात्येन द्रव्यसाक्षात्कारत्वावच्छिन्नं प्रति हेतुत्वात्' इत्यन्यतन्त्रानुसृताः । तथापि तन्त्वादिपरिणतानामणूनां कथं पटादिपरिणामः, द्रव्यस्थानीयस्य परिणामस्य द्रव्यान्तरस्थानीयपरिणामप्रतिबन्धकत्वात् , अन्यथाऽन्त्यावयविनि द्रव्यान्तरोत्पत्तिप्रसङ्गात् ? इति चेत् । न, अन्त्यावयविन्यपि पटादौ खण्डपट-महापटाद्युत्पत्तिदर्शनात् , पटत्वेन पटाऽनाधारत्वाच, 'पटे पटः' इत्यप्रत्ययात् । अथ द्रव्याऽसमवायिकारणीभूतसंयोगनाशेन पूर्वपटनाशोत्तरमेवोत्तरपटोत्पादः । न चैकैकतन्तुसंयोगे द्वितन्तुकादेर्ना त्रितन्तुकायुत्पत्तिः, पुनरेकैकतन्तुवियोगै त्रितन्तुकादिनाशे द्वितन्तुकाद्युत्पत्तिरिति कल्पनागौरवाद् द्वितन्तुकपटादेरेव तन्त्वन्तरसंयोगेन त्रितन्तुकादिपटोत्पादकत्वमिति वाच्यम् द्वितन्तुकादिक्रमेणोत्पन्नचतुरादितन्तुकपटस्य द्वितन्तुकाऽसमवायिकारणसंयोगनाशाद् द्वितन्तुकादिनाशक्रमेण नाशः, अन्तरा पुनर्द्वितन्तुकादिक्रमेणोत्पत्तिरिति कल्पनागौरवसाम्यात् । पटादिजनकविजातीयसंयोग पति तन्तुत्वादिना हेतुत्वाचः इति चेत् । न, विजातीयसंयोगस्य द्रव्यहेतुत्वासिद्धेः, तत्रापि हेत्वन्तरापेक्षायामवश्याऽऽश्रयणीयेन
अण्वादेः । २. संहतावस्थायाम् । ३ चाक्षुषप्रत्यक्षाजनन-जननस्वभावत्वविभावनात् । ५ इतो 'हेतुत्वाच' इत्यन्तः पूर्वपक्षः ।
॥
For Private 8 Personal Use Only
Jain Education Intel
www.jainelibrary.org