________________
प्रकृतोपपत्तौ च, मानं प्रमाणं, न विद्यते, निर्विकल्पकेन तदग्रहणात , तद्विषयत्वस्य निश्चयकोनेयत्वादिति भावः । स्थूल
त्वोत्पाद इष्टोऽभिमतः, अतस्तदन्यथानुपपत्तिरेवाऽतिप्रसङ्गभङ्गायाऽसदजननस्वभावत्वेनोपादानस्योपेयहेतुत्वे मानमिति चेत् । A. असौ स्थूलत्वोत्पादः, तत्सद्भावेऽपि तेष्वणुषु कथश्चित्सत्त्वेऽपि, समस्तुल्यनिर्वाहः । तथाच लाघवात् सज्जननस्वभावत्वेनेवोपादानस्योपेयहेतुता, न त्वसदजननस्वभावत्वेन ॥ इति सत्कार्यसिद्धिः ॥४८॥
अत्र कार्यस्य सत्वं पूर्वोत्तरकालयोः पर्यायार्थिकनयानुसारिणः पर्यायद्वारेणैवाऽऽदिशन्ति, द्रव्यस्य निष्पन्नत्वेनाऽदलत्वात्, द्रव्यार्थिकनयानुसारिणस्तु तेन रूपेण द्रव्यस्याऽनुत्पन्नत्वाद् द्रव्यद्वारेणैवाऽऽदिशन्ति । तदिदमुभयाभिप्रायेणोक्तं सम्मतौ"पंच्चुप्पन्नं भावं विगय-भविस्सेहिं जं समण्णेइ, एयं पडुच्च वयणं" इति । अत्र चाऽऽाभिप्रायेण टीकाकृतोक्तम्-"न चात्मादिद्रव्यं विज्ञानादिपर्यायोत्पत्तौ दलं, तस्य निष्पन्नत्वात्" इति । अन्त्याभिप्रायेण चोपचयमाह ग्रन्थकारः प्रकृतेन च मूर्ताणुसंघातभिन्नं स्थूलत्वमित्यदः तेषामेव तथाभावो न्याय्यं मानाविरोधतः॥४९॥
न च मूर्तानां रूपवतामणूनां परमाणूनां संघातात् परिणामविशेषाद् भिन्न स्थूलत्वं, मूर्तपदं चाक्षुषयोग्यत्वनिर्वाहाय । इति हेतोः, अदः स्थूलत्वं, तेषामेव परमाणूनामेव, तथाभावः कथश्चिदेकत्वपरिणामः, न्याय्यं घटमानकम् , मानाविरोधतः
निर्विकल्पकविषयत्वस्य । २ स्थूलत्वोत्पादाविनाभावः। ३ पूर्वोत्तरकालयोः कार्यस्य सत्वमिति संबध्यते । ४ प्रत्युत्पन्नं भावं विगत-भविप्यद्यां यत् समन्वेति , एतत् प्रतीत्य वचनम् । ५ सम्मतिसूत्रे गाथा १००।६ आयोऽन्न पर्यायाधिकनयः । ७ अन्त्यो व्याथिकनयः।
Jain Education
For Private & Personel Use Only
Badwww.jainelibrary.org