SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ DOO तदभिषेकादाविन्द्रादिभिस्तस्य विहितत्वादस्मदादिभिरपि कृतानुकरणादिभिर्हेतुभिस्तत् तत्र विधीयते, तर्हि तत एवाभरणादिविभूषादिकमपि विधेयम् , कृतानुकरणादेः समानत्वात् । न ह्येतदत्र स्पर्धासाधनम् , किन्तु प्रवृत्तौ निर्मूलत्वशङ्कानिरासेन भावाभिवृद्धिनिबन्धनमिति दिक् । अथाकल्याणभाजनवाद् न मुक्तियोग्याः स्त्रिय इति चेत् । न, तीर्थकरजननात न ह्यतः परं कल्याणमस्ति लोके । अथ हीनबलत्वादेव स्त्रीणां न मुक्तिरिति चेत् । न, रत्नत्रयसाम्राज्ये हीनबलवत्वस्याप्रयोजकत्वात् । अन्यथा स्त्रीभ्योऽपि हीनबलाः पङ्ग्यादयः पुरुषा रत्नत्रयसाम्राज्येऽपि न मुच्चरन् । हीनबलानां विशिष्टचर्यारूपं चारित्रमेव न स्यादिति चेत् । न, यथाशक्त्याचरणरूपस्य सत्त्वसाध्यस्य तस्य तासामप्यविरोधात् । न हि दुर्धरब्रह्मचर्यधारिणीनामसदभियोगादौ तृणवत्प्राणपरित्यागं कुर्वाणानां सत्त्वं तासां नातिरिच्यत इति वक्तुं शक्यम् । न चानुपस्थाप्यतापाराश्चितकानुपदेशेन तासु सत्त्वहीनता सिध्यति, सत्त्वापेक्षयैव शास्त्रे विशुद्धयनुपदेशात् , योग्यतापेक्षयैव तत्र तद्वैचित्र्योपदेशात् । उक्तं च "संवर-निर्जररूपो बहुपकारस्तपोविधिः शास्त्रे । योग-चिकित्साविधिरिव कस्यापि कथाश्चिदुपकारी ॥१॥" इति । तदेवं संपूर्णयोग्यतामभिप्रेत्योक्तं यापनीयतन्त्रे- “नो खलु इत्थी अजीवे, ण यावि अभवा, न यावि देसणविरो नो खलु स्त्री अजीवः, न चाप्यभव्या, न चापि दर्शनविरोधिनी, नो अमानुष्या, नो अनार्योत्पत्तिः, नो असंख्यायुष्का, नो अतिक्रूरमतिः, नो नोपशान्तमोहा, नो न शुद्धाचारा, नो अशुद्धशरीरा, नो व्यवसायवर्जिता, नो अपूर्वकरणविरोधिनी, नो नवगुणस्थानरहिता, न अयोग्या लब्धेः, नो अकल्याणभाजनम्, इति कथं नोत्तमधर्मसाधिका'। JainEducation For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy