________________
असदेतत् , तासां तस्य भगवता "णो कप्पदि णिग्गंथस्स णिग्गंथीए वा अभिन्नतालपलंवे पडिगाहित्तए" इत्याद्यागमेन बहुशः प्रतिपादनात् , अयोग्यायाः प्रव्रज्याप्रतिषेधस्य विशेषाभ्यनुज्ञापरत्वाच्च । अथ सलज्जतया तासां चारित्रमूलमचेलत्वं न संभवति, अमावृतानां तासां तिरश्चीनामिव पुरुषैरभिभवनीयत्वात् , "नो कप्पइ णिग्गंथीए अचेलाए होत्तए" इति भगबदागमेनापि निषिद्धमेव नाग्न्यम्, इति न तासां चारित्रसंभव इति चेत् । न, नाग्न्यं हि न चारित्राङ्गम् , लज्जारूपसंयमविघातित्वात् । न च धर्मोपकरणधरणेन परिग्रहः, तस्य मूरूिपत्वादितिः प्रपञ्चितत्वादिति न किश्चिदेतत् ।
न च स्त्रीणां स्वभावत एव मायाप्रकर्षवत्त्वमुज्जम्भते; न च तत्प्रकर्षे निष्कपायपरिणामरूपं चारित्रमुज्जीवतीति चेत् । न, चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वश्रवणात् । तेषां संज्वलनी माया न चारित्रविरोधिनीति चेत् । संयतीनामपि तादृश्येव सा किं न तथा ? । न च सर्वासां मायापकर्षनियमोऽपि, खभावसिद्धाया अपि तस्या भूयसीषु विपरीतपरिणामेन निवृत्तिदर्शनात् । एतेन 'स्त्रियो न चारित्रपरिणामवत्यः, पुरुषापेक्षया तीवकामवचात् , नपुंसकवत्' इत्यपास्तम् , तीवस्यापि कामस्य भूयसीपु तासु श्रुतपरिशीलन-साधुपासनादिप्रमूतविपरीतपरिणामेन निवृत्तिदर्शनात् । न च मिथ्यात्वसहायेन महापापेन स्त्रीत्वस्य निर्वर्तनाद् न स्त्रीशरीरवर्तिन आत्मनश्चारित्रमाप्तिरिति शङ्कनीयम् , सम्यक्त्वप्रतिपत्त्यैव मिथ्यात्वादीनां क्षयादिसम्भवात् । आस्त्रीशरीरं तदनुवृत्तौ तस्याः सम्यक्त्वादेरप्यपलापप्रसङ्गात् । उक्तं च- 'सम्यक्त्वप्रतिपत्तिकाल एवान्तःकोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसंभवात्' इति । न च कक्षा-स्तना
१ न करप्यते निग्रन्थस्य निर्गन्थ्या वाऽभिन्नतालप्रलम्यान् प्रतिग्रहीतुम् । २ न करप्यते निन्थ्या अचेल या भवितुम् ।
Halww.jainelibrary.org
Jain Education Inter
n
For Private Personal Use Only
a