________________
शास्त्रवार्ता
समुच्चयः। ॥४२७
सटीकः। स्तबकः। ॥११॥
दिदेशेषु संसजन.द्यशुद्धः प्राणातिपातबहुलत्वाद् न तासां चारित्रमिति वाच्यम् । शुद्धशरीराया अपि भूयस्या दर्शनात , प्राणातिपातपरिणामाभावात् । यदि च स्त्रीणां चारित्रं न स्यात् तदा 'साधुः, साध्वी, श्रावकः, श्राविका च' इति चतुर्वर्णसंघव्यवस्थोत्सीदेत् । अथाणुव्रतधारिणी श्राविकापि 'साध्वी' इत्येवं व्यपदिश्यत इति न दोष इति चेत् । हन्त ! तर्हि केवल| सम्यक्त्वधारिण्येव श्राविकाव्यपदेशमासादयेत् ; एवं च श्रावकेष्वपि तथा द्वैविध्यप्रसङ्गेन पञ्चविधः संघः प्रसज्येत । अथ वेषधारिणी श्राविका 'साध्वी' इति व्यपदिश्यते, श्रावकस्तु तथाभूतस्तत्त्वतो यतिरेवेति चातुर्वैध्यं व्यवतिष्ठत इति चेत् । नूनं गुणं विना वेषधारणे विडम्बकचेष्टैव सा । एतेन ‘एकोनषष्टिरेव जीवा यथा त्रिषष्टिः शलाकापुरुषा व्यपदिश्यन्ते तथा त्रिविधोऽपि संघो विवक्षावशाच्चतुर्विधो व्यपदिश्यते' इति निरस्तम् , विवक्षाबीजाभावात् । स्यादेतत् संभवतु नाम चारित्रलेशः स्त्रीणाम् , यदलादिमाः साध्वीव्यपदेशमासादयेयुः, न तु मोक्षहेतुस्तत्प्रकर्षोऽपि तासु संभवी । मैवम् , स्त्रीत्वेन समं रत्नत्रयप्रकर्षस्य विरोधासिद्धेः, तस्य शैलेश्यवस्थाचरमसमयभावित्वेनादृष्टत्वात् , तददर्शने च स्वभावत एव च्छाया-ऽऽतपयोरिव तयोः प्रत्यक्षेण विरोधाग्रहात् । प्रत्यक्षामवृत्तौ चानुमानस्याप्रवृत्तेः, तस्य प्रत्यक्षमूलत्वात् , आगमस्य च तद्विरोधप्रतिपादकस्याश्रवणात् , प्रत्युत तदविरोधपतिपादकस्यैव जागरूकत्वात् । न च वाद-विक्रिया-चारणादिलब्धिविशेषहेतुसंयमविशेषविरहे कथं तासां तदधिकमोक्षहेतुतत्सत्त्वम् ? इति वाच्यम् , लब्धिविशेषहेतुसंयमविरहस्य मोक्षहेतुसंयमविरहाव्याप्यत्वात् , माप-तुषादीनां लब्धिविशेषहेतुसंयमाभावेऽपि मोक्षहेतुतच्छ्रवणात् , क्षायोपशमिकलब्धिविरहेऽपि क्षायिकलब्धेरपतिघातात् , अन्यथावधिज्ञानादिकमुपमृद्य केवलज्ञानस्याप्रादुर्भावप्रसङ्गात् , आह च
॥४२७॥
Jain Education
For Private Personel Use Only
www.jainelibrary.org