________________
ठीकः। शवकः।
शास्त्रवाता- शुक्लध्यानद्वयाभावे प्राक्तनभवानधीतपूर्वाणां वर्तमानतीर्थाधिपत्यादीनामपि तदभावेन मुक्त्यभावापत्तेः । यदि च 'शास्त्र योगा- समुश्यः ।
गम्यसामर्थ्ययोगावसेयभावेष्वतिसूक्ष्मेष्वपि तेषां विशिष्टक्षयोपशमप्रभवप्रभावयोगात् पूर्वधरस्येव बोधातिरेकसद्भावादायशुक्ल॥४२६॥
ध्यानद्वयमाप्तः केवलावाप्तिक्रमेण मुक्तिनातिरिति न दोपः, अध्ययनमन्तरेणापि भावना पूर्ववित्तसंभवात्' इति विभाव्यते; तदा निर्ग्रन्थीनामप्येवं द्वितयसंभवे दोषाभावात् । किञ्च, विशिष्टपूर्वाध्ययनानधिकारोऽपि तासां कुतः सिद्धः ? । सर्वज्ञप्रणीतादागमादिति चेत। लत एव मुक्तिभाक्त्वस्यापि तासां सिद्धिरस्तु । न हि 'एकवाक्यतया व्यवस्थितो दृष्टे-टादिषु बाधामननुभवनासागमः कचित् प्रमाणं कचिद् न' इत्यभ्युपगन्तुं शक्यं प्रेक्षावता । वस्तुतोऽशंतः सिद्धसाधनमध्यबाधितविशेषान्तरोपस्थिती न दोषः, अन्यथांशलस्त्यायोगात् । न चात्राप्राप्ताविकलचारित्रातिरिक्तं मुक्त्यभाजनं विशेषान्तरमुपतिष्ठते येन तद् न दोषः स्यादिति न किञ्चिदेवत । इत्थं च विवादास्पदीभूतस्त्रीणां पक्षत्वेऽपि न निर्वाहः, विवादास्पदीभूतत्वेनातिरिक्तविशेषपरिग्रहा
योगात् । एतेन 'न्यूनत्वं पुरुषदोपो न तु वस्तुदोषः, न चैतावतैव वादिपराजयात् कथापर्यवसानम् , तत्वनिर्णिीषायामHदोषात्' इत्युक्तावपि न क्षतिः।
अथ चारित्राभावादेव स्त्रीणां न मुक्तिः। नन्वतावपि तासां कुतः सिद्धः । स्त्रीत्वादिति चेत् । नन्वेवं पुरुषत्वात् पुरुष| स्यापि तदभावः किं न सिध्येत् ।। अथ पुरुषे सकलसावद्ययोगनिवृत्तिरूपचित्तपरिणतः स्वसंवेदनाध्यक्षसिद्धत्वात् , अन्यैश्चानुमानाद् न तत्सिद्धिरिति चेत् । ननु सा खियां तथैव किं नावसीयते । अथ तासां भगवता नैर्ग्रन्थ्यस्यानभिधानाद् न तत्माप्तिः।
॥४२६
For Private Personal use only
www.jainelibrary.org