________________
'स्त्रियो न मुक्तिभाजः' इत्यत्र च सर्वासां स्त्रीणां पक्षीकरणेsभव्यस्त्रीणां मुक्त्यनभ्युपगमात् सिद्धसाधनम् भव्यस्त्रीणामपि पक्षीकरणे भव्यानामपि सर्वासां मुक्त्यनभ्युपगमात् “भव्त्रा वि ते अगंता जे सिद्धिमुहं ण पावंति" इति वचनप्रामाण्यात्; अवाप्तसम्यग्दर्शनानामपि पंक्षीकरणे परित्यक्तसम्यग्दर्शनाभिः, अपरित्यक्तसम्यग्दर्शनानामपि पक्षीकरणेप्राप्ताविक चरित्राभिस्तद्दोषतादवस्थ्यात् । किञ्च, स्तन - जघनादित्र्याकारयोगित्वरूपस्त्रीत्वहेतुर्विपर्यये बाधकप्रमाणाभावात् संदिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकः । न च पक्षीयव्यभिचारसंशयस्यानुमितिप्रतिबन्धकत्वेऽनुमानमात्रोच्छेद इति शङ्कनीयम्, स्वारसिकस्य तस्यातथात्वेऽप्यप्रयोजकत्वाहितस्यान्वयव्यतिरेकाभ्यां प्रतिबन्धकत्वावधारणात् । एतेन 'स्त्रीपर्यायकालावच्छेदेन स्त्रीत्वावच्छिन्ने मुक्त्ययोगित्वसाधने न दोषः, पक्षतावच्छेदकावच्छेदेन साध्यसिद्धावंशतः सिद्धसाधनस्य 'पृथिवीतरेभ्यो भिद्यते' इत्यादाविवादोपत्वात्' इत्युक्तावपि न क्षतिः । नन्वेवमपि द्वितीयतौ न बाधकम्, पूर्वाध्ययनाभावे सकलकर्मविटपिवान लकल्पाऽऽग्रशुक्लध्यानद्वयाभावात्, “आये पूर्वविदः" इति वचनप्रामाण्यात् तदभावे च केवलज्ञानानुत्पच्या मुक्त्यनुपपत्तेरप्रयोजकत्वाभावात् ; अयमेवाभिप्राय: 'न स्त्रीणां मुक्तिः, पुरुषेभ्यो हीनत्वात्, नपुंसकादिवत्' इति प्रभाचन्द्रप्रयोगस्यापि श्रुतापेक्षया हीनत्वस्य ग्रहणात् उक्तरीत्यांशतः सिद्धसाधनस्यादोषत्वाच 'सामान्यतः पक्ष सिद्धसाधनम् विवादास्पदीभूतानां पक्षत्वे चेतरव्यावर्तकषक्षविशेषणानुवादाने पक्षस्य न्यूनत्वम्, प्रकरणादेव तल्लाभे च पक्षस्यापि तत एव लभ्यस्यानुपादानप्रसङ्गः' इति दोषानवकाशादिति चेत् । न, पूर्वाध्ययनं विनाऽऽद्यभव्या अपि तेऽनन्ता ये सिद्धिसुखं न प्राप्नुवन्ति । २ तत्त्वार्थाधिगमसूत्रे ९ । ३९ ।
Jain Educationational
For Private & Personal Use Only
158dosc0650000066
www.jainelibrary.org