________________
वाच्यम्, "देसेण मे" इत्यादिन्यायात्, स्वकार्यकार्यस्यापि स्वकार्यत्वाविशेषात् कार्यद्वैविध्येन तस्य द्विधातिशयात्, स्वकानिष्ठातिशयस्य परम्परया स्वनिष्ठत्वाच्च यथा हि मृत्तिकाsपान्तरालवर्तिपिण्डादिकार्यं जनयन्ती घटं प्रति न मुख्यतां जहाति तथा ज्ञानमध्यान्तरालिकं संवरं जनयद् न मोक्षं प्रति तथा' इति ज्ञाननयस्मयप्रसरोऽपि कथं निवारणीयः ? । तस्मात् तुल्यवत्समुच्चयेनैव ज्ञान-क्रिये आदरणीये इति । अधिकं परीक्षायाम् ।। ४८ ।। तदेवमुपदर्शितं शास्त्रसम्यक्त्वम् ॥
अथ प्राग् वक्ष्यमाणत्वेन प्रतिज्ञातं मुक्तेर्मृत्यादिवर्जितत्वमुपपादयति-
मृत्यादिवर्जिता चेह मुक्तिः कर्मपरिक्षयात् । नाकर्मणः क्वचिज्जन्म यथोक्तं पूर्वसूरिभिः ॥ मृत्यादिवर्जिता च- मृत्यु-जरा-जन्मवर्जिता व इह-प्रवचने, मुक्तिः, कर्मपरिक्षयात्- सर्वथा कर्मविगमात् तदभावे च कारणं विना कार्यानुत्पत्तेरुक्तोपपत्तेः । तदाह- न, अकर्मणः- कर्मरहितस्य, कचित्, जन्म- सम्मूर्च्छनोत्पत्यादिरूपम्, जन्मनो गत्यादिकर्मनिमित्तत्वात् यथोक्तं पूर्वसूरिभिः- उमास्वातिम मुखैः ।। ४९ ।।
Jain Education International
किमुक्तम् ? इत्याह-
दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मवीजे तथा दग्धे न रोहति भवाङ्कुरः ॥
१ "दासेण मे खरो कीओ दासो वि मे खरो वि मे" इत्यस्मादित्यर्थः ।
For Private & Personal Use Only
acceptoन
www.jainelibrary.org