________________
शास्त्रवार्ता
समुच्चयः। ॥४२३॥
सटीकः। स्तबकः। ॥ ११ ॥
प्रासारखeio
अत्यन्त- निःशेषतया, दग्ध बीजे-शाल्यादिबीजे, यथाऽङ्करः- शाल्यङ्करः, न प्रादुर्भवति, तथा कर्मबीज- ज्ञानावरणादिप्रकृतिमये, अत्यन्तं दग्धे सति, भवाङ्कुरः- नर-नारकाद्यग्रिमभवः 'न प्रादुर्भवति' इति योज्यम् ।। ५० ॥ जन्माभावे जरा-मृत्योरभावो हेत्वभावतः । तदभावे च निःशेषदुःखाभावः सदैव हि ॥
जन्माभावे, जरा-मृत्योः- वयोहान्या-ऽऽयुःक्षयलक्षणयोः, अभावः- अनुत्पत्तिः, हेत्वभावतः- कारणाभावात् , जन्मावस्थारूपत्वात् तयोः । ततः सिद्धं मृत्यादिवर्जितत्वम् । तदभावे च- मृत्यायभावे च, निःशेषदुःखाभावः-रोग-शोकादिसकलदुःखविरहः, सदैव हि- आकालमेव । एवं च दुःखोद्विग्नानां मुक्त्यर्थप्रवृत्तिरुपपादिता भवति ॥ ५१ ॥
न चैवमभावकमयी मुक्तिरित्याहपरमानन्दभावश्च तदभावे हि शाश्वतः।व्याबाधाभावसंसिद्धः सिद्धानां सुखमुच्यते ॥५२॥
. परमानन्दभावश्च- प्रकृष्टस्वास्थ्यलक्षणः, तदभाव- निःशेषदुःखाभावे, हि- निश्चितम् , शाश्वतः- अप्रतिपाती, I व्यावाधाभावसंसिद्धः- काम-क्रोध-शीतोष्ण-क्षुत्-पिपासादिव्याकुलतानिवृत्युपजातः, सिद्धानां सुखमुच्यते । न च तत्र सुखाभावः, विषयसंनिकर्षादिवद् व्यावाधाभावस्यापि सुखविशेषहेतुत्वात् । काम-क्रोधाद्यभावेऽपि योगिनां सुखसाक्षात्कार
, मुले सर्वत्रादशेषु 'सुखमिष्यते' इति पाठः ।
॥४२१
Jain Education
For Private & Personel Use Only
www.jainelibrary.org