________________
RRESTER
असाध्यारम्भिणरतेन सम्यग्ज्ञानं न जातुचित्।साध्यानारम्भिणश्चेति द्वयभन्योन्यसंगतम् ।।
असाध्यारम्भिणस्तेन कारणेन, सम्यग्ज्ञानं तच्चनीत्या, न जातुचिद, फलावच्छिन्नप्रवृत्त्यनङ्गत्वात् ; साध्यानारभिणश्च- व्यर्थकालक्षपणकृतः, तत एवः इति हेतोः, द्वयम्- ज्ञान-क्रियोभयम् , अन्योन्यसंगतम्- इतरेतरनान्तरीयकं निश्चयतः॥४२॥ ___अन्योन्यसंगतिसमर्थकमेव वृद्धव्यपदेशमाहअत एवागमजस्य या क्रिया सा क्रियोच्यते। आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते ४३ |
अत एव- ज्ञान-क्रिययोमिथोऽनुविन्द्धत्वादेव, आगमज्ञस्य पुंसः, या क्रिया, सा- परमार्थेन, क्रियोच्यते, आगमज्ञोऽपि स उच्यते यरतस्यां क्रियायाम् , यथाशक्ति-खसामर्थ्यानुरूपम् , प्रवर्तते । अत एवागीतार्थानां स्वच्छन्दविहारिणां मासक्षपणादिकामपि न क्रियामामनन्ति श्रुतसुद्धाः, न वा भग्नचारित्राणां पूर्वपर्यन्तमपि ज्ञानमामनन्ति, ""णिच्छयणयस्स चरणरसुवघाए नाण-दसणवहां वि” इति वचनादिति द्रष्टव्यम् ॥ ४३ ॥
उक्तमेव दृष्टान्तेन भावयन्नाह
निश्चयनयस्य चरणस्योपघाते ज्ञान-दर्शनवधोऽपि ।
O
raTRIKETERMITT
Jain Educatio
m
ational
For Private Personal Use Only
www.jainelibrary.org