________________
शास्त्रत्रार्ता - चिन्तामणिस्वरूपी दौर्गत्योपहतो नहि । तत्प्राप्त्युपायवैचित्र्ये मुक्त्वान्यत्र प्रवर्तते ॥ ४४ ॥
समुच्चयः । ॥४२०॥
चिन्तामणिर्दारिद्र्यनाशनो रत्नविशेषस्तत्स्वरूपज्ञः- परमार्थेन तत्स्वरूपज्ञाता, दारिद्योपहतः सन् तत्प्राप्त्युपाय वैचित्र्ये - तल्लाभोपायनानात्वे सति, स्वकृतिसाध्यतासूचनाय वैचित्र्योपादानम् ; न हि बहूनामुपायानां मध्य एकोऽप्यनलसस्य कृतिसाध्यो न भवतीति, नहि- नैव, मुक्त्वा तदुपायम्, अन्यत्र - अन्योपाये, प्रवर्तते ॥ ४४ ॥
यस्त्वन्यत्र प्रवर्तते नासौ तत्स्वरूपज्ञ एवेत्याह-
न चासौ तत्स्वरूपो योऽन्यत्रापि प्रवर्तते । मालतीगन्धगुणविद्दर्भे न रमते ह्यलिः ॥४५॥
न चासौ तत्स्वरूपज्ञः- तत्त्वतश्चिन्तामणिरत्नस्वरूपज्ञः, योऽन्यत्रापि चिन्तामणिव्यतिरिक्तोपायेऽपि तदुपायं मुक्त्वा प्रवर्तते । प्रतिवस्तूपमया समर्थयति-- मालतीगन्धगुणवित्- जातिकुसुमसौरभज्ञः, अलिः-- भ्रमरस्तिर्यक्च्चोऽपि हि यतः, दर्भे-- तृणविशेषे, न रमते; किमुतान्यः ?, एवं न भवतीत्यभिप्रायः ॥ ४५ ॥
प्रधानपुरुषार्थमङ्गीकृत्यो भयोपयोगमाह -
मुक्तिश्च केवलज्ञान-क्रियातिशयजैव हि । तद्भाव एव तद्भावात्तदभावऽप्यभावतः ॥४६॥ मुक्ति- प्रधानपुरुषार्थरूपा, केवलज्ञान-क्रियातिशयजैव हि उभयनिबन्धनैव, नानुभयनिबन्धनिकेत्यर्थः । कुतः ?
Jain Education International
For Private & Personal Use Only
सटीकः ।
स्तबकः ।
॥ ११ ॥
॥४२०॥
www.jainelibrary.org