________________
यदप्युक्तम्- 'ज्ञानोत्कर्षादेव मुक्तिः, न क्रियोत्कर्षात्' इति; तत् प्रतिविधित्सुराह-- क्रियातिशययोगेच मुक्तिः केवलिनोऽपि हि । नान्यदा केवलित्वेऽपि तदसौ तन्निबन्धना॥
केवलिनोऽपि- सर्वज्ञस्यापि हि, क्रियातिशययोगे च- शैलेशीकरणाख्यव्यापारोत्कर्षे च, मुक्तिः, नान्यदा-शैलेश्या अर्वाक, केवलित्वेऽपि सति, तत्- तस्मात् , असौ-मुक्तिः, तन्निबन्धना- क्रियानिमित्तिकैवेत्यर्थः ।। ३८ ॥
उभयवादिमतमुपन्यस्य नाहफलं ज्ञान-क्रियायोगे सर्वमेवोपपद्यते। तयोरपि च तद्धावः परमार्थेन नान्यथा॥३९॥
___ सर्वमेव फलं-पुरुषार्थत्वेन पहियमाणम् , ज्ञान-क्रियायोगे- उभयसमुदाय एव, उपपद्यते, विशिष्टफलमधिकृत्य प्रत्येक देशोपकारितायाः समुदाये संपूर्णतोपप सेः; उक्तं च भाष्यकृता___वीसु ण सव्वह चिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समवायम्मि संपुण्णा ।। १॥"
अथ संपूर्णता फलोपहितहेतुत्वं, देशोपकारिता च हेतुत्वमात्रम् , तच्च न पृथग् , ज्ञान-क्रिययोः परस्परमुक्तदोषात् , तथा च कथं समवाये पूर्णता ? इति चेत् । न, प्रत्येकमपि ज्ञान-क्रिययोयोरन्वय-व्यतिरेकानुविधानाविशेषेण हेतुत्वात् , - असम्यग्ज्ञाने फलव्यभिचारस्य चासम्यक्रियायापपि तुल्यत्वादिति भावः । यदि च फलमनुपदधानं ज्ञानं ज्ञानमेव तत्त्वतो
१ विष्वग न सर्वथैव सिकतातलमिव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥1॥
साखनऊ
collelol
Jain Education Intel
For Private Personal Use Only
Jww.jainelibrary.org