________________
ज्ञानादेव केवलात् , नियोगेन- अवश्यंभावेन, सिद्धिम्- मुक्तिम् , इच्छन्ति केचन- ज्ञानवादिनः । अन्येक्रियावादिनः, "क्रियात एव केवलाया मुक्तिः' इतीच्छन्ति । अन्ये- ज्ञान-क्रियावादिनः, विचक्षणाः- उभयसमर्थनाद् यथावस्थितबुद्धयः, द्वाभ्या- समुदिताभ्यां ज्ञान क्रियाभ्याम् , सिद्धिमिच्छन्ति ॥ ३० ॥
तत्र प्रथमं ज्ञानवादिमतमुपन्यस्यतिज्ञानं हि फलदं पुंसां न क्रिया फलदा मता।मिथ्याज्ञानात्प्रवृत्तस्य फलप्राप्तेरसंभवात्॥३१॥
ज्ञानं हि- ज्ञानमेव, फलदम्- ईहितफलहेतुः, पुंसाम्- फलार्थिनां फलोपायं प्रमाय प्रवर्तमानानाम् , फलाव्यभिचारदर्शनात् । न क्रिया फलदा मताः कुतः? इत्याह- मिथ्याज्ञानात्- उपायभ्रमात् , प्रवृत्तस्य पुरुषस्य, फलप्राप्तेरसंभवात् ;न हि मृगतृष्णकाजलज्ञानप्रवृत्तस्यापि तदवाप्तिरिति भावः। आगमेऽप्युक्तम्- “पंढमं नाणं तओ दया" इत्यादि । इत्यतो-ol ऽप्ययमर्थः सिध्यतीति द्रष्टव्यम् ॥ ३१ ॥
'ज्ञानोत्कर्षा-ऽपकर्षाभ्यां फलोत्कर्षा-ऽपकर्षयोरपि ज्ञानस्यैव फलहेतुत्वम् , क्रियोत्कर्षा-ऽपकर्षयोस्तवातन्त्रत्वात्' । इत्यभिप्रायवानाह| ज्ञानहीनाश्च यल्लोके दृश्यन्ते हि महाक्रियाः। ताम्यन्तोऽतिचिरं कालं क्लेशायासपरायणाः।।
प्रथमं ज्ञानं ततो दया ।
Jain Educatio
www.jainelibrary.org
n
For Private & Personal Use Only
al